SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ प्रशस्तिः । यतः चरितं कल्पितं चापि द्विधोदाहरणं मतम् । परस्मिन् साधनायार्थस्यौदनस्य यथेन्धनम् ॥ १७ ॥ अथवोक्तम् अनादिनिधने काले जीवानां चित्रकर्मणाम् । संविधानं हि तन्नास्ति संसारे यन्न संभवेत् ।। १८ ।। अतोऽस्मिन् ग्रन्थे यन्न्यूनमधिकं वा कृतं मया । तदप्यनेनाssधारेण तत् क्षन्तव्यं ममाऽखिलम् ॥ १९ ॥ श्री पार्श्वचरितं तैस्तैर्वर्णितं यन्महात्मभिः । ४७७ इत्थं मयाऽपि यत् तत्रोपक्रान्तं धार्यमेव तत् ॥ २० ॥ किञ्च, २१ ॥ उत्तुङ्गचङ्गचत्यानि महेभ्यैः कारितानि चेत् । तद् देवकुलिकामल्पधनो न विदधाति किम् ? ॥ पूजितो यदि देवेन्द्रैर्जिनो मन्दारदामभिः । पूजयन्ति न किं तत् तान् मर्त्या मरुबकादिभिः ? ॥२२॥ अध्वानमवतीर्णा यं गुरुगत्या महागजाः । न सञ्चरति किं तत्र करिपोतः स्खलद्गतिः १ ॥ २३ ॥ तन्मयाऽपि प्रभोर्भक्तिप्रकर्षवशचेतसा । यतः चरित्रं चरितं सन्धाऽनुमतं च न दुष्यति ॥ २४ ॥ यदत्र किञ्चिन्मूढत्वादलीकं ग्रथितं भवेत् । सर्व माये कृपां कृत्वा संशोध्यं तन्मनीषिभिः ।। २५ ।। निशम्य सम्यक् श्रीपार्श्वस्वामिनश्चरितं वरम् । भविकैस्तत्तात्पर्यार्थो धारणीयः सदा हृदि ॥ २६ ॥ - गुरुमेघगतीं विभ्रत् सरोवत् कमलोज्ज्वलः । दृश्यते स्फुटमुत्तानः स्थूलवत् तु रजोमयः ॥ २७ ॥ अ लवादपि यथा पटुतां सुधायाः
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy