________________
४७६
श्रीपार्श्वनाथचरितेकारुण्यामृतवारिधिर्विनिदधे गुप्तौ स्वकीयं मनः । शान्तात्माऽनुचरं चिरस्य विनिजग्राहेन्द्रियाणां गणं
यो विज्ञातसमस्तवस्तुरभवत् तुल्यश्च हेमा-ऽश्मनोः ॥८॥ तदीयपट्टेऽजनि वीरसूरियन्मानसे निर्मलदर्पणाऽऽभे । निरूपयामास सरखती सा त्रैविद्यविद्यामयमात्मरूपम् ॥९॥ सदाभ्यासावेशप्रथितपृथुमन्थानमाथिता
दवाप्तं तर्काब्धेर्विबुधपतिसिद्धेशमहितम् । यदीयं वागब्रह्माऽमृतमकृत दर्पज्वरभर
प्रशान्ति निःशेषक्षितिवलयवादीन्द्रमनसाम् ॥१०॥ तस्मादभूत संयमराज्यनेता
मुनीश्वरः श्रीजिनदेवमूरिः। यो धर्ममारोप्य गुणे विशुद्ध
ध्यानेषुणा मोहरिपुं विभेद ॥ ११ ॥ आद्यनामक्रमेणैवं प्रसर्पति गुरुक्रमे । पुनः श्रीजिनदेवाऽऽख्या बभूवुर्वरसूरयः ॥ १२ ॥ येषां पादारविन्दानरुणनखशिखारागभूयोऽभिरज्य
ल्लक्ष्मीलीलानिवासान्त्रिमलगुणभृतो भेजिरे राजहंसाः । आकृष्टानेकलोकभ्रमरकृतनमस्कारझङ्काररम्यो येषामद्यापि लोके स्फुरति परिमलोऽसौ यशोनामधेयः॥१३॥ तेषां विनयविनयी बहु भावदेव
सूरिः प्रसन्नजिनदेवगुरुप्रसादात् । श्रीपत्तनाऽऽख्यनगरे रविविश्व (१३१२) वर्षे
पार्श्वप्रभोश्चरितरत्नमिदं ततान ॥ १४ ॥ समीक्ष्य बहुशास्त्राणि श्रुत्वा श्रुतधराऽऽननात् । ग्रन्थोऽयं ग्रथितः स्वल्पसूत्रेणापि मया रसात् ॥ १५ ॥ काऽपि दृष्टान्तमात्रस्तु यः कोऽपि कथितो मया। खधिया सोऽपि जैनाज्ञानुसारेण गुणेच्छुना ॥ १६ ॥