________________
श्री पार्श्वनाथचरिते
श्रीवत्सः स्वस्तिको नन्द्यावर्त्त भद्रासने इति ॥ १०३ ॥ शक्रः स्वामिपुरो र पट्टे रजततण्डुलैः । आलिख्य मङ्गलान्यष्टाविति स्तोतुं प्रचक्रमे ॥ १०४ ॥ जय श्रेयोनिधे ! स्वामिन्नश्वसेननृपाङ्गज ! | नम्रामरशिरोभृङ्गसङ्गचङ्गपदाम्बुज ! ॥ १०५ ॥ तत्त्वप्रकाशिनी चित्तलोचने भुवनश्रियः | सारः कनीनिकाकान्त ! श्रीवामेय ! त्वमेव हि ।। १०६ ।। बहुभ्रान्तिभवग्लानिध्यामलाया मनोदृशः ।
तमालदलनीलाङ्ग ! त्वयि दृष्टे पटिष्ठता ।। १०७ ॥ पाताल-विधु-वानां सुधासारं प्रगृह्यते ।
1
वपुश्चक्रे विधिर्नूनं त्रिलोक्या तेन सेव्यते ।। १०८ ॥ घनच्छवितनूकान्तिनीरवर्षेण तन्वता ।
२६२
शस्यानि त्रिजगद् देव ! त्वयाऽभूद् देवमातृकम् ।। १०९ ।। करकल्पद्रुमं पादनख चिन्तामणीवरम् । देव ! दिव्यगवीधाम ! वपुर्देवपुरं तव ।। ११० ॥ पातालं मज्जनाम्भोभिर्योः पूजाऽगुरुधूम्यया । शरीरकान्तिभिः पृथ्वीं पुनासीति जगत्त्रयम् ॥ १११ ॥ तत्र स्तवन-निध्यान-ध्यानैरजनि निर्मलम् ।
चक्षुर्मनो मेऽद्य भावान्नाथ ! नमोऽस्तु ते ।। ११२ ॥ स्तुत्वेत्यर्हन्तमादाय नीत्वा वामाऽन्तिकेऽमुचत् । जवस्वापिनीं तस्यास्तच्चात्प्रतिरूपकम् ।। ११३ । प्रभोष्टविनोदायोपरि श्रीदामगण्डकम् । इन्द्रोऽमुञ्चत्तयोच्छीर्षे दिव्यरूपे स कुण्डले ।। ११४ ॥
इन्द्रादेशाद्विभोर्भोगयोग्यवस्तून्यनेकशः ।
सौधे श्रीदो न्यधाच्छान्तिरुद्घुष्टा चाऽऽभियोगिकैः ॥ ११५ ॥ संक्रमय्याऽमृतं स्तन्याऽर्थायाऽङ्गुष्ठ हरिः प्रभोः ।
१ देवदूष्ये इत्यपि ।