SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ पञ्चमः सर्गः। २६१ न्यषीदद् वासवः पूर्वाभिमुखो हर्षनिर्भरः ॥९॥ प्रयुक्ताऽवधयोऽन्येऽपि त्रिषष्टिस्तत्र वासवाः । महा द्रुतमाजग्मुश्चतुःषष्टिरभूदिति ॥ ९१ ॥ दश वैमानिका इन्द्रा विंशतिर्भवनाधिपाः । ज्योतिष्को द्वौ च सोमाकौं द्वात्रिंशद् व्यन्तरेश्वराः ॥ ९२ ॥ अथाऽभियोगिका इन्द्रादेशात् सिन्धुहूदादितः । आनीय जलपुष्पाद्यं सर्व वेगादढोकयन् ।। ९३ ॥ हैमै रौप्यैरथो रत्नमयः काञ्चन-राजतैः। . स्वर्ण-रत्नमय। स्वर्ण-रौप्य-रत्नमयैरपि ॥ ९४ ।। रौप्य-रत्नमयैौमैरष्टभेदैरिति क्रमात् । कुम्भैः प्रत्येकमष्टाग्रसहस्रेणाऽम्बुपूरितैः ॥ ९५ ॥ अच्युतादिसुराधीशा विधिनाऽस्नपयन् जिनम् । पारिजातकपुष्पाबैरानचुस्तुष्टुवुश्च ते ॥ ९६ ।। ... (विशेषकम्) तदा केऽपि सुरा हृष्टा ननृतुस्तालसुन्दरम् । नानारूपैरभिनयं केऽप्याक्षेपकरं व्यधुः ।। ९७ ॥ समश्रुतिगतं रागस्वरग्राममनोरमम् । शुद्धसरोद्भवं गीतं गायन्ति स्माऽपरे सुराः ॥९८ ॥ ततेन विततेनाऽपि घनेन शुषिरेण च । चतुर्विधेन वाधेन कौतुकं केऽप्यपूरयन् ॥ ९९ ॥ ववल्गुरुल्ललन्ति स्म केपि केऽपि चुकूदिरे । केचिद् घनवृषाऽश्वेभासिंहनादान वितेनिरे ॥ १० ॥ अथ न्यस्य प्रभुं शक्र ईशानाऽङ्के चतुर्दृषीम् । विकुर्व्य तद्विषाणोत्थैः स्नपयामास वारिभिः ॥ १०१ ॥ उन्मृज्य गन्धकाषाय्या दिव्ययाऽङ्ग हरिविभोः । विलिप्य चन्दनैर्दिव्यैः पुष्पायैस्तमपूजयत् ॥ १०२ ॥ दर्पणो वर्धमानश्च कलशो मीनयोर्युगम् ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy