________________
सप्तमः सर्गः ।
लीननेत्रालिसद्गन्धमुखपुष्पः स बालकः । दोःशाखाग्रस्फुरत्पाणिपल्लवः किं न चम्पकः १ || ५८८ || पांशुक्रीडारसेनाऽसौ देवानामपि दुर्लभम् ।
४.२५
भुञ्जानो बाल्यजं सौख्यं संजातः पञ्चवार्षिकः ।। ५८९ ।। वसन्तसमयेऽन्येद्युर्विचित्रकुसुमैः कृतम् ।
पुष्पाभरणमादाय मालाकारस्य गेहिनी ॥। ५९० ॥ सभाssसीनस्य भूपस्यात्वलगायां गताऽन्तिकम् । कुतूहलेन बालोऽपि ययौ तत्र तया सह ।। ५९१ । तथैवाऽथ नृपासन्नोपविष्टेन पुरोधसा । तं दृष्ट्वा धृतिं शीर्ष नखाच्छोटन पूर्वकम् ।। ५९२ ॥ किमेतदिति संभ्रान्तमानसेन महीभुजा । पृष्टोऽसौ मन्दमाचख्यौ निमित्तज्ञानकोविदः ।। ५९३ ॥ य एव बालको देव ! दृश्यते पुरतः स्थितः । सत्वदीयमिदं सिंहासनमाक्रमिता ध्रुवम् ।। ५९४ ॥ साशङ्कं पुनरप्यूचे नृपो वेत्सि कथं त्विदम् ? | शरीरलक्षणैर्देव ! कानि तानि निशम्यताम् १ ।। ५९५ ।। उक्तं सामुद्रिके शास्त्रे नराणां यच्छुभाशुभम् । लक्षणं तत् समासेन नख - केशाग्रमुच्यते ।। ५९६ ॥ अस्वेदौ पाटलौ श्लिष्टाऽङ्गुली कूर्मोन्नती मृदु । उष्ण ताम्रनखौ गूढगुल्फौ पादौ नृणां शुभौ ।। ५९७॥ सूर्पाकारास्तथा भुग्ना वक्राः शीताः शिरायुताः । सस्वेदाः पाण्डुरा रूक्षावरणास्त्वतिनिन्दिताः ।।५९८ ।। राज्याय पादयो रेखा ध्वज-वज्रा ऽङ्कुशोपमाः । अङ्गुल्योऽपि समा दीर्घाः संहिता समुन्नताः ।। ५९९ ॥ अङ्गुष्ठैर्विपुलैर्दुःखं सदाऽध्वगमनं नृणाम् । वृत्तैस्ताम्रनखैः स्निग्धैर्हसितैस्तु सुखं भवेत् ।। ६०० ॥ ह्रस्वा क्लेशाय भोगायाङ्गुष्ठाद् दीर्घा प्रदेशिनी ।
५४