SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ ४५६ श्रीपार्श्वनाथचरितेसमा तु मध्यमा श्रेष्ठा धिये दीर्घा कनिष्ठिका ।।६०१॥ असंहिताभिईस्वाभिरङ्गुलिभिस्तु मानवः । दासो वा दासकर्मा वा समुद्रवचनं यथा ॥ ६०२॥ हंसे-भ-वृषभ-क्रौञ्च-सारसानां गतिः शुभा । खरो ष्ट्र-महिष-श्वानगतयस्तु महाधमाः ।। ६०३॥ दुःखिनः काकजङ्घाः स्युर्दीर्घजङ्घा महाऽध्वगाः। बन्धनं चाऽश्वजवानां मृगजवस्तु पार्थिवः ।। ६०४ ॥ जानुनी मांसले स्निग्धे ऊरू विस्तीर्णवर्तुले । इष्टकाऽऽभा कटी शस्या मध्यं तु कुलिशोपमम् ॥६०५॥ मृग-व्याघ्रोदरो भोगी श्व-शृगालोदरोऽधमः । मण्डूकसदृशं यस्योदरं स स्यान्महीपतिः ॥ ६०६ ॥ वर्तुला गर्भगम्भीरा नाभिः शस्या न तूत्रता । गम्भीरे भूपतिः कुक्षावुत्ताने स्त्रीमुखेक्षकः ॥ ६०७ ॥ ईश्वरो व्याघ्रपृष्ठः स्यात् कूर्मपृष्ठस्तु पार्थिवः । समोपचितविस्तीर्णहृदयेन सुभोगभाक् ॥ ६०८ ॥ प्रलम्बबाहुः स्वामी स्याद् इस्वबाहुस्तु किङ्करः । स्वच्छारुणनखौ दीर्घाखली रक्तौ करौ श्रिये ॥ ६०९ ॥ शक्ति-तोमर-दण्डा-ऽसि-धनुश्चक्रा-ऽङ्गदोपमा । यस्य हस्ते भवेद् रेखा राजानं तं विनिर्दिशेत् ॥ ६१० ॥ ध्वज-वज्रा-ऽङ्कुश-च्छत्र-शङ्ख-पद्मादयस्तले । पाणिपादेषु दृश्यन्ते यस्याऽसौ श्रीपतिः पुमान् ॥६११।। स्वस्तिके जनसौभाग्यं मीने सर्वत्र पूज्यता । श्रीवत्से वाञ्छिता लक्ष्मीर्गवाद्यं दामकेन तु ॥ ६१२ ॥ पुत्रदा करभे रेखा कनिष्ठाऽधः कलत्रकृत् । अङ्गुष्ठमूलरेखा तु भ्रातृ-भाण्डानि शंसति ॥ ६१३ ॥ अङ्गुष्ठेषु यवैभाग्यं, विद्या चाऽङ्गुष्ठमूलजैः । ऊर्ध्वाऽऽकारा पुनः पाणितले रेखा महाश्रिये ॥ ६१४ ॥
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy