________________
४२४
श्रीपार्श्वनाथचरितेस यावदग्रतो याति तावद् बालं तरोस्तले ॥ ४७५ ॥ अपश्यद् विकसनेत्रपत्रं सत्कण्ठकन्दलम् । विस्फुरत्कान्तिकिञ्जल्कं धारयन्तं मुखाम्बुजम् ॥५७६।।
(विशेषकम् ) तं दृष्ट्वा मालिको दध्यौ नूनमस्य प्रभावतः । अचिन्तितमिवाऽकस्माद् बभूव सफलं वनम् ॥ ५७७ ॥ अपुत्रस्य यतः पुत्रं सर्वलक्षणसंयुतम् । अदाद् मदीयभाग्येन तुष्टा मे वनदेवता ।। ५७८ ॥ अर्पये निजगेहिन्या इति निश्चित्य तं हृदि । दोामादाय गत्वाऽसौ स्वगृहे हर्षनिर्भरः ॥ ५७९ ॥ दत्तो देवतया तोषात् पुत्रोऽयं गृह्यतां प्रिये !। इत्युक्त्वा प्रीतितन्मय्याः स्वप्रियायाः समर्पयत् ॥ ५८० ।। मालिन्या गूढगर्भायाः पुत्रो जात इति श्रुतिम् ।। बहिर्विस्तारयामास प्रच्छन्नीकृत्य तामसौ ।। ५८१॥ अथो विचित्रपुष्पाणि प्रकीर्य स्वगृहाङ्गणे । घृतेनोदुम्बरं सिक्त्वा द्वारे सम्पूर्य तोरणम् ॥ ५८२ ॥ आगच्छदक्षतामत्रं संमिलत्स्वजनवजम् । विधीयमानसन्मानं मानिताऽशेषदैवतम् ॥ ५८३ ॥ वाद्यमानमहातूर्य भवद्धवलमङ्गलम् । सत्कारोत्थमुदा नृत्यत्सजातीयाऽङ्गनाजनम् ॥ ५८४ ॥ बालप्रभावसंपन्नं व्ययित्वा द्रविणं बहु । अकारयदयं पुत्रजन्मवर्धापनोत्सवम् ॥ ५८५ ॥
.. (कलापकम्) कुलजज्ञातिसम्बन्धि भक्तसत्कारपूर्वकम् ।। सुदिने नाम बालस्य वनराज इति व्यधात् ॥ ५८६ ॥ यत्नादारामिकेणैष पाल्यमानो निरन्तरम् । नवचम्पकवद् वालः प्राप वृद्धि मनोहराम् ।। ५८७ ॥