SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ षष्ठः सर्गः। ३७३ किन्तु हृद्युषितं देव ! जल्पितं पुरतश्च ते । परिव्रज्याविधानं तत् कृत्यमेव मया ध्रुवम् ॥ १२७९॥ किश्चाऽशक्तिमतः पुंसो बिलमप्यर्णवायते । साहसोद्यतचित्तस्य सागरोऽपि हि गोष्पदम् ॥ १२८०।। अथाऽसौ वार्यमाणोऽपि प्रधानैर्ऋतमग्रहीत् ।। राज्ञापि कारितो भ्रातुर्महान् निष्क्रमणोत्सवः ॥१२८१॥ यावद् राज्यधरः कोऽपि स्यात् तावत् स्थीयतां विभो !। इत्युक्तो मन्त्रिभिस्तस्थौ राजा भावयतित्वभृत् ॥१२८२।। कण्डरीकोऽपि सत्सामाचारी तां पालयन् भृशम् । जज्ञे बहुमतः सर्वसाधूनामपि मानसे ॥१२८३।। तस्याऽपि तस्थुषो भावात् स्वाध्याय-नियमादिषु । सुखं जज्ञेऽधिकं स्वर्गादेवं कालो बहुर्ययौ ॥१२८४।। अन्यदा मधुरारावभृङ्गालिमणिनूपुरैः। अलङ्कृतमृदुस्वच्छपाटलांहिमनोहरा ॥१२८५॥ प्रत्यग्रलसिताऽशोकप्रवालकरपल्लवा । स्मेराम्बुजमुखी फुल्लमल्लिकादशनोज्ज्वला ॥१२८६॥ चारुचम्पकपुष्पाङ्गी कोकिलारवबन्धुरा । तिलकालङ्कृता श्वेतकेतकीपत्रशालिनी ॥१२८७।। स्फीतयाऽतीव सुभगम्भविष्णुबकुलश्रिया । दक्षिणाऽनिलसद्गन्धमुखश्वासैकजीविता ॥ १२८८ ॥ सुवर्णमञ्जरीरम्यै राजितोपरिवर्तिभिः। सान्द्रसच्छायमाकन्दमायूरातपवारणैः ॥ १२८९ ॥ प्रफुल्लकिंशुकव्यूहकौसुम्भाऽम्बरधारिणी । पावर्तत वसन्तश्रीमूर्तेव वनदेवता ॥ १२९० ॥ .. (षभिः कुलकम् ) श्रीखण्डपुष्पधवलास्ताम्बूलालक्तकद्रवैः। जातसिन्दूररेखाढ्या कस्तूरीस्तबकाङ्किता ॥ १२९१ ॥
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy