________________
३७२
श्रीपार्श्वनाथचरितेगृह्णामि सुगुरोरन्ते गत्वा दीक्षामहं यथा ॥ १२६६ ॥ कण्डरीको जगौ भ्रातः ! किं मां पातयसे भवम् । चतुर्गतिभवं दुःखं म्याऽपि गुरुतः श्रुतम् ॥ १२६७ ॥ प्रवज्यां तद् ग्रहीष्येऽहमपि नावं भवोदधौ । यदभीष्टं हि तद् देव ! दीयते लघुवन्धवे ॥ १२६८ ॥ अथाह नृपतिर्वन्स ! व्रतमेव महापियाम् । मर्त्यत्वे चारु किन्त्वेतन् नवे वयसि दुष्करम् ॥ १२६९ ॥ अहिंसा सर्वभूतेषु पाल्या समतया यतः । भाषितव्यं हितं सत्यं नित्याऽवहितचेतसा ।। १२७० ॥ परेण तृणमात्रस्याऽप्यदत्तस्य विवर्जनम् । धार्य ब्रह्मव्रतं भोगिन् ! यावज्जीवं सुदुष्करम् ॥१२७१।। धनादौ प्रेष्यवर्गे च सर्वथाऽप्यपरिग्रहः । रात्रौ चतुर्विधस्याऽपि सदाऽऽहारस्य वर्जनम् ॥१२७२।। संनिधेः सञ्चयस्त्याज्यो न कार्यो गृहिसंस्तवः । इतीदमुच्यते खड्गधाराचमणोपमम् ॥१२७३।। किश्चइन्द्रियाणि चलानीह दुष्टा रागादयोऽरयः। प्रमादबहुलो जीवो यौवनं च विकारभूः ॥१२७४॥ अनवस्थं मनः सोढुं न शक्याश्च परीषहाः। ततो वत्स ! व्रतं वार्द्धिभुजातरणसंनिभम् ॥१२७५।। अज्ञातपरमार्थोऽसि तद् विदित्वा जिनागमम् । कृत्वाऽऽत्मतुलनां भुक्त्वा राज्यं श्रितगृहिव्रतः ॥१२७६।। निर्वतितान्यकर्तव्यः समतिक्रान्तयौवनः । पद्यारोहक्रमेणैव परिव्रज्यां त्वमाश्रयेः ॥ १२७७ ।।
(युग्मम् ) उक्तोऽपि युक्तिभिर्भूयो भूय एवं नृपेण सः। अमुश्चन्नाग्रहं प्राह राजन् ! युक्तं त्वयोदितम् ॥ १२७८ ॥