SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ षष्ठः सर्गः। स चतुर्दशपूर्वाणि समधीत्य समाहितः । चिरं तपोभिर्विविधैः श्रामण्यं पर्यपालयत् ॥ १२५३ ॥ मासं संलेखनां कृत्वा प्रान्ते हित्वा कलेवरम् । सर्वदुःखपरिक्षीणो निर्वाणपदमासदत् ॥ १२५४ ।। अथ कालेन तत्रेयुस्त एव स्थविराः पुनः । पुण्डरीको गतो नन्तुं सानुजः सपरिच्छदः ॥ १२५५ ॥ ववन्दे च गुरुं भक्त्या गुरुणाऽपि सविस्तरम् । चतुर्गतिप्रबन्धात्या विहिता धर्मदेशना ॥ १२५६ ॥ पुण्डरीकोऽपि तत् सर्वं हृदि सम्यग् विभावयन् । लघुकर्मतया जातसंवेगः प्राविशत् पुरीम् ॥ १२५७ ॥ आकार्य च निजामात्यप्रधानान् स महामनाः । कण्डरीकं पुरस्कृत्य सहर्षमिदमब्रवीत् ॥ १२५८ ॥ वत्स ! भुक्ता मया भोगाः पालितं राज्यमक्षतम् । वशीकृताश्च राजानः साधितं क्षोणिमण्डलम् ॥ १२५९ ॥ दिगन्तरेभ्य आनीता बहुव्ययसहाः श्रियः। पूजिता देवगुरवो गृहिधर्मो निषेवितः ॥ १२६० ॥ सत्कृताः स्वजनाः सर्वेऽप्यर्थिनः सफलीकृताः । जनाऽनुरागतः कुन्दसुन्दरं च यशोऽर्जितम् ॥ १२६१ ॥ तारुण्यमधुना याति शनकैढौंकते जरा। मृत्युरासन्नतामेति क्षीयते. बलमैन्द्रियम् ॥ १२६२ ॥ भावितो जिनधर्मोज्तश्चिरं ज्ञाता भवस्थितिः। प्रनष्टा भवसौख्येच्छा सिद्धावुत्कण्ठते मनः ॥ १२६३ ॥ पुनर्जन्म पुनर्मृत्युः पुनर्घस्रः पुनर्निशा । एवंविडम्बनापायात् पुनश्चर्वितचर्वणात् ॥ १२६४ ।। विरक्तोऽस्म्यहमग्रेऽपि श्रुतं गुरुवचोऽधुना । तद् गन्तुमुत्सुकस्येदं शकुनप्रेरणोपमम् ॥ १२६५ ॥ गृहाण तदिदं राज्यं सन्नीत्या पालय प्रजाः ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy