________________
४८
श्रीपार्श्वनाथचरितेचिन्तितं दस्युनेदं यद् गन्धारो जिनधार्मिकः ।। तदाख्यातमतोऽलीकं युगान्तेऽपि न संभवेत् ।। ५९५ ।। उक्तं चाऽऽख्याहि मे मन्त्रं त्वं गृहाण करण्डकम् । साधयित्वा यथा सद्यः प्रत्ययं जनयामि ते ॥ ५९६ ॥ स्कन्दिलोऽपि तदा तस्मै कौतुकेन भयेन च । संपूरितमना मन्त्रं यथातथमञ्चीकथत् ॥ ५९७ ॥ चौरः शिक्यकमारुह्य मन्त्रमेकमनाः स्मरन् । चिच्छेद युगपत् पादांश्चतुरोऽप्यस्य साहसात् ॥५९८॥ विद्याऽधिष्ठायिनी तुष्टा विमानं देव्यऽढौकयत् । तस्करोऽपि तदाऽऽरुह्य ययौ गगनमण्डलम् ।।५९९॥ अथ प्रभातसमये विष्वग् व्याहारका नराः। अरे ! गृह्णीत बनीत लब्धश्चौरः सवस्तुकः ॥६००॥ जल्पन्त इति ते यावत् स्कन्दिलं प्रति ढौकिताः । चौरविद्याधरस्तावद् विकुर्व्य महतीं शिलाम् ॥६०१॥ मद्गुरोः स्कन्दिलस्याऽस्य विरुद्धं यः करिष्यति । तस्योपरि शिलां मोक्ष्ये गगनस्थोऽब्रवीदिति ॥६०२॥
(विशेषकम् ) भीताः सर्वेऽथ तद् गत्वा शशंसुर्भूभुजे भटाः । नृपोऽपि सम्भ्रमात् तत्राऽऽगत्य तं विनतोऽवदत् ॥६०३॥ कथ्यतां खेचराधीश ! कथं गुरुरऽयं तव ? । वृत्तान्ते कथिते तेन गताः सर्वेऽपि विस्मयम् ।।६०४॥ अन्वय व्यतिरेकाभ्यां शङ्कोदाहरणं बुधैः । इत्थं विभाव्य सम्यक्त्वं धार्य निःशङ्कमानसैः ॥६०५।। चारित्रयाने भग्नेऽपि गुणमाणिक्यपूरिते । तरत्येव भवाऽम्भोधिं सम्यक्त्वफलकग्रहात् ॥६०६॥ तमोग्रस्तस्य सामस्त्याद् जीवेन्दोर्यदि जायते । सचैतन्यकला काऽपि व्यक्ता मुक्तिस्ततो ध्रुवम् ॥६०७।।