________________
४७
प्रथमः सर्गः। . जडैकप्रकृतिनं स्याद् महात्मा तेन तद्वचः । श्रेष्ठिनाऽङ्गीकृतं सोऽपि मन्त्रं विधियुतं ददौ ॥ ५८२ ॥ स्वस्वस्थानं जग्मतुस्तौ कृतकृत्यावुभावऽपि । परोपकारी गन्धारो गते काले कियत्यपि ॥ ५८३ ॥ वृथैषोऽरण्यजातीव मा गादिति विचिन्त्य तम् । मन्त्रमात्मीयमित्राय स्कन्दिलाय प्रदत्तवान् ॥ ५८४ ॥ विद्या साधयितुं सोऽपि सोपस्करकरो निशि । ययौ कृष्णचतुर्दश्यां श्मशानाऽऽसनकानने ॥ ५८५ ॥ कृत्वा बलिविधानाद्यं विशिष्टैकतरोरधः । प्रज्वलत्खादिराऽङ्गारपूरितं कुण्डमातनोत् ॥ ५८६ ॥ बद्धं तस्यैव शाखायां द्रुतमारुह्य शिक्यकम् । अष्टोत्तरशतं वारान् जपित्वा मन्त्रमक्षतम् ॥ ५८७ ॥ यावत् क्षुरिकया रज्जुपादमेकं छिनत्त्यऽसौ । वीक्ष्याऽङ्गारानधस्तावदिति शङ्का मनस्यऽभूत् ॥ ५८८ ।। छिन्ने पादचतुष्केऽपि शिक्यकस्य क्रमेण मे। अत्राऽहो ! सिद्धिसन्देहो वह्निपातस्तु निश्चितः ॥५८९॥ हार्यन्ते किं मुधा प्राणा जीवतां भविता शुभम् । इति कृत्वा समुत्तीर्य ततो भूमावुपागतः ॥ ५९० ॥ भाविन्येवंविधा भूयः सामग्री दुर्लभा खलु । किं करोमीति कर्तव्यसंकुलो यावदस्ति सः ॥५९१॥ आदाय नृपतेः सौधादलङ्कारकरण्डकम् । तावत् तत्र भयव्यग्रश्चौर एकः समाययौ ॥ ५९२ ॥ पदाऽनुसारतः पृष्ठलग्नास्तं राजपुरुषाः । ज्ञात्वा तत्रस्थमा रात्रिं वेष्टयित्वा स्थिता वनम् ॥५९३॥ उद्योतदर्शनाचौरोऽप्यागत्य स्कन्दिलाऽन्तिके । किमेतदिति पाछ सोऽपि सर्व शशंसिवान् ? ॥ ५९४ ॥ १ अरण्यस्थमालतीवत् ।