SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ श्रीपार्श्वनाथचरितेसम्यक्त्वाऽऽख्यमहामन्त्रः किमु शाश्वतसौख्यदः ॥५६९॥ आसीत् पुरे वसन्ताख्ये गन्धारः श्रावको वरः। देवपूजा दया दानं दाक्ष्यदाक्षिण्यसंयुतः ॥५७०॥ स याति प्रायशो दूरमुद्यानवनमध्यगे । जिनेन्द्रभवने देवपूजार्थ सदुपस्करः ।।५७१॥ चैत्येऽसौ यावदऽन्येयुः प्रविश्य विधिना जिनम् । स्नपयित्वा समऽभ्यर्च्य सुगन्धकुसुमादिभिः ॥५७२॥ रोमाश्चितवपुः स्तौति स्तवैर्भावमनोहरैः । विद्याधरो महाजनः तत्रैकस्तावदागतः ।। ५७३ ।। दृष्ट्वा श्रुत्वा च तत्सर्वमखर्वाऽऽनन्दमेदुरः। साञ्जसं निकटीभूय गन्धारमिदमऽब्रवीत् ।। ५७४ ।। अहो ! धार्मिक ! वन्दे त्वाऽमद्य में नेत्रकर्णयोः । चिरात् पारणकं जज्ञे तेन किंचिद् ददामि ते ।।५७५।। अदृश्यीकरणाऽऽकृष्टी रूपान्तरकृतिस्तथा । परकायप्रवेशाद्या विद्याः सन्तीह भूरिशः ॥ ५७६ ॥ आकाशगामिनी विद्या दुर्लभा किं तु भूतले । गृहाण तदिमां साधो ! योग्योऽसि कुरु मे प्रियम् ।।५७७॥ यतःयथा दोषोऽत्र विद्यायाः कुपात्रन्यासतो भवेत् । तथा स्थाननियोगेन महानाऽऽसाद्यते गुणः ॥ ५७८ ॥ गन्धारः प्राह भो भद्र ! किं ममाऽपरविद्यया । एकैव धर्मविद्याऽस्तु या दुष्पापा सुरैरपि ? ॥ ५७९ ॥ किं चसर्वमौपाधिकं सौख्यं विपाके दुःखदायकम् । स्वभावाद् जायमानं तु धर्मिणां स्यात् चटत्क्रमम् ॥ ५८०॥ खेचरोऽप्याह जानामि संतोषं तव धार्मिक !। समाधानाय मे किन्तु करणीयमिदं त्वया ॥ ५८१ ॥
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy