SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ श्रीपार्श्वनाथचरिते S क्षुः स्नेहेन सौभाग्यं दन्तस्नेहे सुभोजनम् । त्वचः स्नेहेन सौख्यं स्याद् नखस्ने महाधनम् ||६२८ ॥ लक्षणानां तदेतेषां यत् किश्चिदतिशोभनम् । तदस्मिन् दृश्यते देव ! बालके नात्र शंसयः ||६२९|| विशेषः पुनरेकोsa भ्रुवोर्मध्ये यदीक्ष्यते । ऊर्णाsssयं रोम तेनाsस्य राज्यं नैव विसंवदेत् ||६३०॥ इति वाक्यतमोग्रासग्लपिताऽऽननचन्द्रमाः । विसृज्याऽऽशु जनं राजा चण्डमाहूय पृष्टवान् ॥ ६३१ ॥ अभीस्ते ब्रूहि सत्यं भोः ! त्वया वालो हतो न वा ? | तेनापि कथिते सत्येस किंकृत्याऽऽकुलोऽभवत् ।। ६३२|| ततः सायं समाहूय भीमसेनाऽऽख्यसेवकम् | आदिदेश नृपो बालवधार्थमथ सोऽप्यगात् ।। ६३३॥ अश्वमारुह्य गोधूलिवेलायां मालिकौकसि ? | जगृहे च बलाद् बालं रममाणं गृहाद् बहिः ||६३४॥ गच्छन् पुराद् बहिर्भीमस्तात ! मां कुत्र नेष्यसि । इति बालवचः स्निग्धं श्रुत्वाऽभून्मृदुमानसः १ ॥ ६३५ ॥ ? दृष्ट्रा च करजैरषित्स्पृशन्तं श्मश्रुतः कचान् । रोमाञ्चितवपुर्जातसुतप्रीतिरवोचत ||६३६ ॥ पुत्र ! नेष्यामि तत्र त्वां भविता यत्र सुन्दरम् | इति संतोष्य तं भीमो ययौ खरतराऽटवीम् ॥६३७|| तत्राऽतिभीषणेऽनेकवनेचर-निशाचरैः । आश्वासभवनं यक्षभवनं दिव्यमैक्षत ||६३८ ॥ सोऽश्वादुत्तीर्य तस्याऽन्तः प्रविवेश सबालकः । ४२८ 7 : यक्षस्य सुन्दराऽऽख्यस्य प्रतिमां वीक्ष्य चावदत् ॥६३९॥ त्वदीयशरणे बालो मुक्तोऽयं परमेश्वर ! | न्यस्येति तं तदुत्सङ्गे व्यावृत्य स्वगृहं गतः । ६४० ॥ मोदकं देहि मे तात ! क्षुधितोऽहमिति मृदु ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy