SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ सप्तमः सर्गः। ४२९ वदन् बालः कराग्रेण यक्षतुन्दं परामृशत् ।। ६४१ ॥ यक्षः पाषाणरूपोऽपि भिन्नस्तद्वचसा भृशम् । चिन्तिताऽऽहृतमेतस्मै ददौ प्रवरमोदकम् ॥ ६४२ ।। अथ तत्र कृताऽऽवासः सार्थेशः केशवाभिधः । तदा वृषेषु नष्टेषु जाग्रत् सुप्तोऽस्ति चिन्तया ॥ ६४३ ॥ तस्याऽऽदेशं ददौ यक्षो मा कार्षीदधृतिं भवान् । स्वयमेव समेष्यन्ति बलीवास्तव प्रगे ।। ६४४ ॥ अन्यश्च वनराजाऽऽख्यो मदुत्सङ्गगतः सुतः। ग्रहीतव्यस्त्वया येनाऽपुत्रत्वेनासि दुःखितः ।। ६४५ ॥ इति श्रुत्वा स सार्थेशः स्मृतदेव-गुरुक्रमः । जजागार महाहर्षप्रकर्षवशमानसः ॥ ६४६ ॥ निशाऽन्ते च बलीवोऽऽगमं श्रुत्वा परिच्छदात् । समादाय महापूजां यक्षस्य भवनं ययौ ॥ ६४७॥ कृत्वा पूजां स्तुतिं चाऽपि हसिताऽऽस्यं तदङ्कतः । आदाय बालकं तुष्टः स्वप्रियायै समर्पयत् ॥ ६४८ ॥ ततः क्रमेण सार्थेशः खं सुशर्मपुरं ययौ । विभूत्या तत्र पुत्राप्तिवर्धापनमकारयत् ॥ ६४९ ।। कारितः सदुपाध्यायसन्निधौ पठनक्रमम् । सदभ्यस्तकलाशास्त्रो जज्ञे षोडशवार्षिकः ॥ ६५० ॥ अथाऽसौ वनराजेन समं सार्थपतिः पुरे । क्षितिप्रतिष्ठिते सार्थसंवाहेन गतः क्रमात् ॥ ६५१ ॥ साथै निवेश्य सुस्थाने पुत्रेण सहितः स्वयम् । गृहीत्वोपायनं चारु प्रतस्थे सुस्थितं नृपम् ।। ६५२ ॥ आसने दापिते राज्ञा निविष्टे सार्थनायके । वनराजो नृपं पश्यन्नूर्व एव स्म तिष्ठति ॥ ६५३ ।। " पुरोधा वीक्ष्य तं भूयः कुमारममराकृतिम् । विभाव्य च हृदि स्पष्टं तथैवाऽऽच्छोटयनखम् ॥ ६५४ ॥
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy