SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः। हरिश्चन्द्रस्य दत्तेन किं द्रव्येण वृथाऽधुना ?। यो हि स्वामी पुरस्याऽस्य देयोऽस्माभिः करोऽस्य तत् ६७४ इति मन्त्रयतो मन्त्री तानूचे रहसि स्थितः । राजा वोऽर्थयते स्वर्णमधमर्णो मुनेः स यत् ॥ ६७५ ॥ पश्यतस्तान् मिथो वक्तुं स्वर्णदाने कृतोत्तरान् । हरिश्चन्द्रस्ततोऽभ्यत्य स्वयमथर्यते स्म तान् ।। ६७६ ॥ हे पौराः ! वोऽञ्जलिबद्धो दत्त स्वर्ण कियन्मम । कुतश्चिदपि याचित्वा दास्ये वः काञ्चनं पुनः ॥ ६७७ ।। अल्पद्रव्या वयं दातुं स्वर्णलक्षं न शक्नुमः । इत्यूचिवांसो वणिजो राज्ञादिष्टा ययुहान् ।। ६७८ ॥ विलक्षोऽथ नृपो दध्यौ किं करोमि कुतः पुनः । समानयामि तत् स्वर्ण हा ! धिक् कीदृगुपस्थितम् ? ६७९ ततः कुलपतिः कोपकम्पमानाधरोऽवदत् । विलम्बः कोऽयमद्याऽपि राजन् ! विसृज-मां ततः॥६८०॥ वसुभूतिर्मुनि प्राह विश्वदृश्वा त्वमस्यथ । हरिश्चन्द्रसमः क्वापि दृष्टः किं कोऽपि साविकः? ॥६८१॥ सोपहासमुवाचाऽथाङ्गारवक्त्रो न मन्त्र्यपि । दृष्टोऽभूत् त्वादृशो नाऽपि हरिश्चन्द्रसमो नृपः ॥ ६८२ ॥ नृपं प्रति मुनिः प्रोचे मायाविन् ! किं वृथोदितैः । हंसि मध्याह्नसंध्यां नः सत्त्वं सत्यं च ते ह्यदः ॥ ६८३ ॥ ऊचेऽङ्गारमुखो राजन् ! वाञ्छसि त्वं किमात्मनः । कुलस्य यशसो लोकस्याकस्मिकमिह क्षयम् ॥६८४ ॥ प्रणम्योचे नृपो भीतेस्त्वत्तः किं स्यात् क्षयोऽपि नः । उपपूर्वाचलं नैव ग्रहाणामस्तसम्भवः ॥ ६८५ ॥ निहन्ति पाणिना भूपं मुनिस्तं नतवान् नृपः । कोपे क्षान्तौ च तावेव तदाऽभूतां निदर्शने ॥ ६८६ ॥ सरोषमङ्गारमुखो भूपं प्राह नृपाधम ।।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy