________________
४४
श्रीपार्श्वनाथचरिते
विधिना शुद्धभूभागे कृतासनपरिग्रहम् ||५४३॥ तपःप्रभावसम्पन्नज्ञानाऽतिशयभासुरम् । साधुहंसगणै रम्यैः संसेतिपदाम्बुजम् ||५४४|| अन्तःशमसुधोल्ला सिवदनेन्दुप्रभाभरैः ।
प्रीणयन्तमऽसङ्ख्याताज्यातवन्दारुनागरान् ||५४५|| (त्रिभिः विशेषकम् )
विश्व प्रदक्षिणीकृत्य भूतलन्यस्तमस्तकः । प्रणम्य पुरतो भक्त्या प्राञ्जलिः समुपाविशत् ||५४६॥ आशिषं गुरुsts मै दत्त्वा कल्याणकारिणीम् । रहस्यं जिनधर्मस्य सप्रसादमुदाहरत् ।। ५४७ ।। मरुस्थलपथे यद्वद् दुष्प्रापः कल्पपादपः । तथा भवेत्र जन्तूनां मानुष्यमतिदुर्लभम् ॥ ५४८ ॥ आर्यदेशश्च तत्राऽपि सुकुलं निर्मला मतिः । विशिष्टगुरुसम्पर्को भूरिभायैरवाप्यते ॥ ५४९ || आसादिते पुनस्तस्मिन्नऽक्षयं सुखमिच्छुभिः । धारणीयं हृदि ज्ञात्वा सम्यक् सम्यक्त्वमऽच्युतम् ||५५०॥ यथा विना प्रतिष्ठानकाष्ठं पोतो न सिध्यति । प्रासादो निष्ठुरं पीठवन्धं च न विना भवेत् ।। ५५१।। गाढमूलं विना प्रौढिं नाऽऽसादयति पादपः । सम्यक्त्वं च विना तद्वद् धर्मो नैवावतिष्ठते ॥५५२३|| तद् देवगुरुधर्माणां तवनिश्चयलक्षणम् । भवे भवति भव्यानामभव्यानां कदापि न ॥ ५५३ ॥ | विश्वं विश्वमपि व्याप्तं रागद्वेषादिभिर्भृशम् । निःशेषा यस्य ते क्षीणा वीतरागः स देवता ॥ ५५४ || शान्तचित्तवचस्काये सर्व सत्रोपकारिणि ।
वीतरागे विसंवादः सहृदां हृदये कुतः ? || ५५५ ॥ दुःखगर्भ सुखं रागे निरागत्वे निरन्तरम् ।