SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः। अल्पकालेन चाऽऽभ्यस्तसदागमपरिश्रमः । गुरुणा गुणगौरव्यो न्यस्तो गुरुपदक्रमे ।।५३१॥ जनस्याऽप्यन्तरङ्गारिमथनाय कृतोद्यमः । महामुनिपरीवारी विजहार धरातले ॥५३२॥ ललिताङ्गो नृपः प्राप्य प्राज्यसाम्राज्यसम्पदम् । .. विश्वस्यापि मुदेऽत्यन्तं पूर्ण सर इवाऽभवत् ॥५३३।। शुद्धपक्षद्वयेनेव न्याग्रराज्यद्वयेन सः । विराजन् राजहंसोऽथ कस्य नोवास मानसे ? ॥५३४॥ उत्खन्याऽऽरोपयन् भूयः कुर्वन् कण्टकिनो बहिः । अत्युच्चान् नमयन्नुच्चैः कुर्वन्नीचाऽनपि क्रमात् ॥५३५॥ मूलानि पालयन् नीत्या चिन्वानः पुष्पितान् शनैः । स लोकाऽऽरामवृद्ध्यर्थ मालाकार इवाऽभवत् ॥ ५३६ ॥ तथाहिजननीव परित्राणात् पितेव धनदानतः । गुरुवद् धर्मकारित्वादाचार्य इव शिक्षणात् ॥५३७।। मित्रवञ्च हिताऽऽख्यानाद् न्यायधर्मपरायणः । राजा किमिव लोकानां न करोति समीहितम् ? ॥५३८॥ (युग्मम् ) तस्यैवं शासतो राज्यमन्येद्युमुदिताननः । उद्यानपालकोऽभ्येत्य विहिताञ्जलिरब्रवीत् ॥५३९॥ दिष्ट्या वाप्यसे देव ! जयेन विजयेन च । आययौ बहिरुद्याने राजर्षिनरवाहनः ।। ५४० ॥ तत् श्रुत्वा भाविभद्राशाजातहर्षोल्लसन्मनाः । शकुनायाऽर्थवत् तस्मै कोटिसङ्ख्यं धनं ददौ ॥५४१।। सत्वरं च गुरोः पादवन्दनाय महादरः । सान्तःपुरपरीवारो ललिताङ्गनृपो ययौ ॥५४२॥ सोऽपश्यत् तत्र तं नेत्राऽऽनन्दनं मुनिमण्डनम् । .
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy