SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ २४८ श्रीपार्श्वनाथचरितेसापनान्यप्यपत्यानि स्वाङ्गजानिव लालयेः । कदापि मा कृथा गर्व चक्रिपत्नीत्वसम्भवम् ।। ८९ ॥ सन्धये सगुणा शूची वक्रा च्छेदाय कर्तरी । अतो विमुच्य वक्रत्वं गुणानेव समाश्रयः ॥ ९० ॥ इयं त्वदेकचित्ता च दत्ता नन्दोत्तरा सखी । सर्वकार्येषु ते सज्जा धार्य दुःखं न तन्वपि ॥ ९१ ॥ इति शिक्षा प्रगृह्याऽम्बां कुलपतिप्रमुखानपि । नत्वाऽऽपृच्छय च पद्माऽप्यारूढा यानं पतिश्रितम् ॥९२॥ स्वर्णबाहुरपि प्राप्य भृत्यं पद्मोत्तरं क्षणात् । वेताढ्याद्रौ गतः श्रेणीद्वयं चक्रे वशंवदम् ॥ ९३ ॥ खेचरैः खेचरैश्वर्येऽभिषिक्तोऽनेककन्यकाः । खेचराणामुपायंस्त कियत् तस्थौ च तत्र सः ॥ ९४ ॥ गुणैः स्थानच्युतस्यापि जायते महिमा महान् । अपि भ्रष्टं तरोः पुष्पं न कैः शिरसि धार्यते ? ॥ ९५ ॥ अथ पद्मादिपत्नीभिः समस्ताभिः समन्वितः। ययौ बहुपरीवारः स्वर्णबाहुर्निजं पुरम् ॥ ९६ ॥ तत्र तस्याऽतिक्रिस्य विधिना शासतो महीम् । चतुर्दश महारत्नान्यभूवन् क्रमशो यथा ॥९७॥ चक्र-चर्म-च्छत्र-दण्डाः कृपाणः काकिणिर्मणिः। गजा-ऽश्व-गृह-सेनानी-पुरोधः-स्थपति-स्त्रियः ॥९८॥ महा विहिते राज्ञा तदष्टाहमहोत्सवे । चक्रमायुधशालातः पूर्वस्यां प्रस्थितं दिशि ॥१९॥ तद् नृपोऽनुव्रजन्नब्धौ तीर्थमासाद्य मागधम् । कृताष्टमो रथस्थोऽनुतीर्थेशं बाणमक्षिपत् ॥१०॥ मागधेशः सभासीनस्तं दृष्ट्वा पतितं पुरः। अरे ! कस्य यमः क्रुद्धो ब्रुवन्निति रुषाग्रहीत् ॥१०॥ १शक्रमतिक्रान्तस्य ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy