________________
चतुर्थः सर्गः ।
२४७ पद्माऽपि जननी नत्वा बाष्परुद्धगलेक्षणा। भविष्यत्तद्वियोगातिर्दुःखितेदमभाषत ।। ७६ ॥ पत्या सह गमिष्यामि मात तः परं मम । स्थानमन्यत्र तद् ब्रूहि द्रक्ष्यामि त्वां पुनः कदा ? ॥७७॥ भ्रातृतुल्यानिमान् वृक्षान् मृगीः प्रियसखीसमाः । मुनिकन्याश्च स्वसृवदहं त्यक्ष्यामि ही ! कथम् ? ॥ ७८ ॥ असौ गर्जति पर्जन्ये षड्जस्वरमनोज्ञवाक् । कलापी ताण्डवकलां कस्याग्रे दर्शयिष्यति ? ॥ ७९ ॥ बकुला-ऽशोक-माकन्दान् कः पाता मां विना पयः ? । शिशूनिवाहानपरांश्चलपल्लवपाणिभिः ।। ८० ॥ रत्नावल्यप्युवाचैव वत्से ! त्वं चक्रवर्तिनः । पल्यऽभूविस्मर ततो धिग् वृत्तिं वनवासजाम् ॥ ८१ ॥ खेचरेन्द्रसुते ! भर्ताऽनुगम्योऽसौ त्वयाऽधुना । त्वं भविष्यसि देव्यस्य किं विषादो मुदः क्षणे ? ॥ ८२ ॥ इत्युक्त्वा मूर्ध्नि चुम्बित्वा समालिङ्गयाऽथ निर्भरम् । अङ्कमारोप्य मुक्तास्राऽन्वाद् रत्नावलीति ताम् ॥ ८३ ।। गता पतिगृहं वत्से ! गुरूणां विनता भवेः। कुर्यास्त्वं भोजनं भुक्ते, स्वापं सुप्ते च भर्तरि ॥ ८४ ॥ सरोषे कथमप्यस्मिन् प्राञ्जलाऽऽस्या विशेषतः । पतिभक्त सहर्षा च. रुष्टेव पतिविद्विषि ॥ ८५॥ पिकीव मधुरं ब्रूयाः स्त्रीणां वत्से ! पतिष्विदम् । मूलमन्त्रादि पापेन मुक्तं कार्मणमुत्तमम् ॥ ८६ ॥ नीरङ्गीछन्नवदना नित्यं नीचैर्विलोचना। वत्से ! कुमुदिनीव त्वमसूर्यपश्यतां श्रये ॥ ८७ ॥ चक्रिपत्नि ! सपत्नीषु सापत्न्यं दधतीष्वपि । त्वया पाञ्जलया भाव्यं महत्त्वस्योचितं यदः॥८८॥ शासक् अनुशिष्टौ।