SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः।' २४९ चक्रिनाम ततो वीक्ष्य शान्तकोपः स चक्रिणम् । एत्य नत्वोपदापाणि त्यस्तेऽस्मीत्यसान्त्वयत् ॥ १०२ ॥ नृपः सत्कारपूर्व तं विमृज्य कृतपारणः । तस्याऽष्टाहमहं चक्रे नौचित्याद् भ्रश्यति प्रभुः ॥१०३ ॥ सर्वत्राऽप्यधिदेवानामावर्जन-विसर्जने । एषोऽष्टमतपोमुख्यो विधिः स्याचक्रवर्तिनः ॥ १०४ ॥ वरदाम-प्रभासौ च दक्षिणा-ऽपरदिक्सुरौ । इत्थमेव वशीचक्रे तथा सिन्धुं नृपः क्रमात् ॥ १०५॥ वैताव्यमेत्य तत्रस्थो जित्वा वैताव्य दैवतम् । सेनान्यं प्रेष्य सिन्धोः स परखण्डमसाधयत् ॥ १०६ ॥ कृतपालमथो जित्वा स तमिस्रागुहाधिपम् । दण्डरत्नेन सेनान्या तद्द्वारमुदघाटयत् ॥ १०७ ॥ कुम्भे न्यस्य मणिं कुम्भ्यारूढश्चक्री विवेश तत् । लिखन्नुभयतो भित्त्योः काकिण्या मण्डलावलीम् ॥१०८॥ तदुद्द्योतात् ससैन्योऽसौ चलन् वर्धकिक्लुप्तया । पद्यया निमग्नोन्मग्ने नद्यावुदतरत् सुखम् ॥ १०९ ॥ पञ्चाशयोजनमितां गुहामुल्लङ्घ्य तां गिरेः। स्वयमुद्घाटितोदीच्यद्वारेण निरगान्नृपः ॥ ११०॥ तत्रापाताहयान् म्लेच्छभूपानिर्जित्य लीलया । साध्यामास सेनान्या सिन्धोः सोऽपरनिष्कुटम् ।। १११॥ क्षुद्रहिमवत्कुमारं जित्वाऽलिख्य निजाभिधाम् । काकिण्यर्षभकूटेऽसौ पुनर्वैताब्यमागमत् ॥ ११२ ॥ तत्र जित्वा युधा श्रेणीद्वयविद्याधरान् नृपः । साधयामास सेनान्या गङ्गायाः खण्डमुत्तरम् ॥ ११३ ॥ गङ्गादेवीं वशीचक्रे नाट्यमालं च दैवतम् । जित्वा खण्डगुहायास्तां स प्राग्वदुदघाटयत् ॥ ११४ ॥ १ तृतीयान्तम् । ३२
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy