________________
श्रीभावदेवसूरिविरचितं
कर्णेजपतया तस्य फुत्कृत्येव हुताशनः ।
अदीपिष्ट भृशं राजा, किं तु पुत्रोऽपि मित्रवत् ॥८३॥ द्रष्टव्यः शैशवोत्तारे नीतिवाक्यमिति स्मरन् । रहः कुमारमाकार्य शिक्षयामास कोमलम् ||८४|| ( युग्मम् ) तात ! यद्यपि सद्वृत्तैर्वृद्धत्वं जरसा विना । जातं तदपि ते किञ्चिद् योग्यत्वादुपदिश्यते ॥ ८५ ॥ वत्स ! नो वेत्सि किं राज्यं बहुकार्य निरन्तरम् ? । स्वार्थेक करणव्यग्र परिवारसमावृतम् ||८६|| सावधानतया चिन्त्यं करण्डस्थभुजङ्गवत् । नियन्त्रणीयं कपिवद् गुणैः शाखान्तरं व्रजत् ॥८७॥ फलितक्षेत्रवद् नित्यं रक्षणीयं प्रयत्नतः । नव्याऽऽराम इव स्थित्या सेवनीयं मुहुर्मुहुः ||८८ ॥ समूलमपि कोशेन दृढस्कन्धं महीभुजा । तदपत्यैर्महाशाखं विस्तीर्ण नृचतुष्पदैः ॥ ८९ ॥ स्फुरद्रत्नसुवर्णादिपल्लवोल्लाससुन्दरम् । यशःकुसुमसंभारैराकृष्टाऽर्थिमधुव्रतम् ॥ ९० ॥ नानाऽऽयातकलादक्षपक्षिभिः कृतसंश्रयम् । सुधाधवलितोत्तुङ्गप्रासादेन महोच्छ्रयम् ॥९१॥ अनीतिजलकल्लोलैर्लोलमुच्चैः क्षणाद् भुवि । व्यसनाख्यो नदीपूरः पातयेद् राज्यपादपम् ||१२||
(कलापकम् ) किञ्चित् किञ्चिदकुर्वाणोऽप्यशृण्वन्नचलन्नपि । प्रमादश्छलयत्येवाऽनवधानं पिशाचवत् ॥ ९३ ॥ गम्यं तदस्य दूरेण पुरुषेण हितैषिणा । विश्वासो नैव कर्त्तव्यस्तथा लक्ष्म्यामियं यतः ॥ ९४ ॥
१ फुत्कारेण इव । २ जात !, एवमपि । ३ मधुव्रता भ्रमराः ।