________________
प्रथमः सर्गः। क्षीरनीरनिधेर्जन्मलाभादिव सतृष्णताम् । करोति मत्तमातङ्गसंगादिव मदान्धताम् ॥ ९५ ॥ रजोबहुलतां पासबवासादिवाऽधिकाम् । तनोति क्रूरतां तीक्ष्णासिधाराचरणादिव ॥९६।।
(त्रिभिर्विशेषकम् ) नैव मूर्ख न विदुषि न शूरे न च कातरे । न कुरूपे न सद्रूपे न वृद्धे तरुणे न वा ॥९७॥ प्रकाश्य विविधान् भावानसतोऽपि सतो यथा । रञ्जयन्ती जगत्सर्व नैव श्रीः काऽपि रज्यते ॥९८॥ पण्यं पण्याङ्गनेवाऽसौ केवलं पुण्यमीक्षते । नराणां तेन तैर्नित्यमर्जनीयं तदेव हि ॥१९॥ भवेद् नैकान्ततस्तच्च व्यसनाऽऽसक्तचेतसाम् । तदेवं भण्यते जात! भवानित्थं पुनः पुनः ॥ १०० ।। एष यद्यपि ते दानगुणः सर्वगुणोत्तमः । तथाऽपि नियतं तत्राऽप्यत्याऽऽसक्तिन शोभना ॥१०१॥ सर्वथा सर्वकार्येषु माध्यस्थ्यं शस्यते नृणाम् ।
दन्तपातः कथं न स्यादतिकपूरभक्षणात् ॥ १०२॥ तथा
तरुदाहोऽतिशीतेन दुर्भिक्षमतिवर्षणात् ।। अतित्यागादनौचित्यमऽतिः कुत्राऽपि नेष्यते ॥१०३॥ एतदेव हि पाण्डित्वं यदाऽऽयादल्पको व्ययः । अत्रोदाहरणं दृष्टं स्पष्टं मुनिकमण्डलुः ॥१०४॥ नित्यं कृतव्ययः स्वैरं मेरुरप्यपचीयते । तेजसीव गते वित्ते नरोऽङ्गारसमो भवेत् ॥१०५॥ बन्धुर्वन्धुरधीस्तावत्. तावद् भार्या मनोऽनुगा । सर्वः कलकलः तावद् यावद् द्रव्यसमागमः ॥१०६।। तदभावे पुनः शान्तध्वनि तमनुजीविनः ।