SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ १० श्रीपार्श्वनाथचरिते मुञ्चन्ति विहगाः सद्यस्तडागमिव निर्जलम् ॥ १०७॥ विशुद्धोऽपि गुणवातो विना लक्ष्मीं न शोभते । उन्मीलति यथा चित्रं न विना कृष्णतूलिकाम् ।। १०८ ।। मलरूपाऽपि तेनैषा' सज्जनैरपि कायते । अतो नाऽर्थव्ययः कार्यस्त्वया वत्स ! यदृच्छया ॥ १०९ ॥ अद्य श्वो वा तवैवाऽयं राज्यभारोऽवतिष्ठते । तन्निर्वाक्षमं विद्वन् ! साधारणगुणं श्रय ॥ ११० ॥ ललिताङ्गकुमारस्तदुपदेशाऽमृतं पितुः । कर्णाञ्जलितं पीत्वा मुदितो हृद्यऽचिन्तयत् ॥ १११॥ धन्योऽहं यस्य मे तातः प्रत्यक्षमिति शंसति । गुरुवत् तत्वमेकान्ते तदिदं स्वर्णसौरभम् ॥ ११२ ॥ मातापित्रोर्गुरूणां च शिक्षणादपरं जने । अमृतं नास्ति, नास्त्येव तदुपेक्षासमं विषम् ॥ ११३॥ पूज्याssदेशः प्रमाणं मे इत्यानन्य गुरुं गिरा । भक्त्या कृतनमस्कारः कुमारः स्वगृहं ययौ ॥ ११४॥ अथ स्तोकतमं तस्य यच्छतः पितुराज्ञया । अपवादः प्रववृते याचकानां मुखादिति ॥ १९५॥ कुमार ! किमिदं विश्वदानेश्वरशिरोमणे ! आकस्मिकमिहाऽऽरेभे वैलोम्याssचरणं त्वया ? ॥ ११६ ॥ चिन्तामणिसमो भूत्वा देव ! दानेन भूतले । पाषाण इव संवृत्तः तदिदानीं कथं भवान् ? ॥११७॥ कलामिन्दुः करं दाता, धारां धाराधरो यदि । संकोचयिष्यते तर्हि जीविष्यति कथं जगत् ? ॥ ११८ ॥ व्यञ्जनं यद्वदन्नस्य यथा चाऽङ्गस्य भूषणम् । दानस्याऽन्ये गुणास्तद्वत् परीवाराय केवलम् ॥ दानमेकं ततः श्रेष्ठम्, महर्द्धिरपि मानवः । १ श्यामकूचिकाम् । २ विपरीतताचरणम् । ११९ ॥
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy