________________
प्रथमः सर्गः। तेन हीनो विना क्षीरं स्थूला गौरिव नार्हति ॥ १२० ॥ धैर्य-शौर्यादिकं द्वीपि'-कोलादिष्वपि दृश्यते । दानं तु महतामेव गजेन्द्राणां प्रवर्तते ॥ १२१ ॥ कीटिकानामनक्षीणामपि संग्रहशीलता । .. दानं पुनर्न देवानामपि निर्निमिषेक्षिणाम् ॥ १२२ ॥ संग्रहैकपरः प्राप समुद्रोऽपि रसातलम् । दाता तु जलदः पश्य भुवनोपरि गर्जति ॥ १२३ ॥ धनाङ्गपरिवाराचं सर्वमेव विनश्यति । दानेन जनिता लोके कीर्तिरेकैव तिष्ठति ॥ १२४ ॥ अदातैव वरं जातमृतपुत्रादपुत्रवत् । दानेन जनयित्वाऽऽशां न तु तस्मात् च्युतः पुमान् ॥१२५॥ प्रहित्य सर्वतः कीर्ति निमन्त्र्य भृशमर्थिनः । द्वारं पिदधतो देव! कस्ते धातुविपर्ययः ? ॥ १२६ ॥ चित्रं दातृकरो मुक्तद्रविणोऽपि गुरुर्भवेत् । अर्थिनः पुनरत्यन्तलघुर्धनभृतोऽप्यसौ ॥ १२७॥ दातुर्नार्थिसमो बन्धुर्भारमादाय यः परात् । लक्ष्मीरूपाऽऽपदि गतं निस्तारयति तं खलु ॥ १२८ ॥ तस्मिन् सदुत्सव इवाऽऽगते तुष्यति पण्डितः । मूर्खस्तु दूयते दीर्घरोगीव हि चिकित्सके ॥ १२९ ॥ समुद्राः स्थितिमुज्झन्ति चलन्ति कुलपर्वताः। प्रलयेऽपि न मुञ्चन्ति महान्तोऽङ्गीकृतं व्रतम् ॥ १३०॥ पालयित्वा चिरं दानगुणं पावनमुन्नतम् । मा नाशय निषेधेन शिखाबन्धेन दर्भवत् ॥ १३१॥ ललिताङ्गो निशम्यैवं हृदये पीडितो भृशम् । अचिन्तयदिदं हन्त ! विषमं समुपस्थितम् ॥ १३२ ॥ एकतः पितुराज्ञा में परिवादस्तथाऽन्यतः । १ चित्रक-शूकरादिषु । २-मर्जितमित्यपि ।