SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ श्रीपार्श्वनाथचरितम् । एवं भूरिगुणस्याऽपि तस्य दातृगुणो भृशम् । जज्ञे कुत्रापि कस्याऽपि बोभवीति मनोरतिः ॥७०॥ न तथाऽऽशु कथाकाव्यैर्न गीतवनितादिभिः। न चाऽश्वगजलीलाभिः सुखं दृष्टे यथाऽर्थिनि ॥७१॥ गलितेव तिथिस्तस्य चित्ते मास इवाऽधिकः । तदिनं गणनां नैति यस्मिन्नार्थिसमागमः ॥७२॥ सुतलाभादभीष्टस्याऽर्थ्याऽऽगमस्याऽपि शंसिने । दानव्यसनिनः तस्याऽदेयं किमपि नाऽभवत् ॥७३॥ अथाऽऽसीत् सज्जनो नाम्ना प्रकृत्या दुर्जनः पुनः। भृत्यः कृत्येषु सर्वत्र कुमारस्याऽनिवारितः ॥ ७४ ॥ वर्धितोऽपि कुमारेण तं प्रति प्रतिकूलकृत् । जलैः पुष्टोऽपि किं वाः सुखाय वडवानलः? ॥ ७५॥ सकलोऽपि सुवृत्तोऽपि दृष्यमाणोऽप्यलं जनैः । न मुञ्चति कुमारस्तं कलङ्कमिव चन्द्रमाः ॥ ७६ ॥ अनर्थहेतुः तत्सर्व पूर्वदुष्कर्मचेष्टितम् । वैद्योऽपि यदपथ्याऽऽशी यद् विद्वान् नीचसंगतः ॥७॥ आयुक्तः प्रीतिदो लोके वियुक्तः श्रवणप्रियः। प्रयुक्तः सर्वविद्वेषी केवलः स्त्रीषु वल्लभः ॥७८॥ इतः कश्चित् कलादेने विहितो गुरुकारणे । ढौकितः भूपतेः सोऽग्रे पुना राज्ञो ततः परम् ॥७९॥ अन्यदा तद्गुणप्रीतमानसोल्लासतो ददौ।. अलङ्कारं कुमारस्य महामूल्यं महीपतिः ॥८॥ दानमेवाऽस्तु किं भारकारिभिः भूषणान्तरैः ? । इतीव सपदि त्यागं चक्रे तस्याऽपि राजमः ॥८१॥ अथ विज्ञपयामास तस्यातित्यागदूषणम् । तत्सर्व सज्जनो गत्वा सविशेषं महीभुजे ॥८२।। १ दृष्टैर्यथाऽर्थिभिः, इत्यपि। २ सुवर्णकारेण । ३ गृहीत इति शेषः ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy