SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः । ५९ सलिले पद्मिनीखण्डं धत्ते सिंहासनश्रियम् ॥ ७३० ॥ विकासकाशपुष्पाणि दधन्ते चामरोपमाम् । ढक्कानिनादसंवादि मत्तगोपनर्द्दितम् ।। ७३१ ॥ इत्येवं राज्यचिह्नेर्यो गोपस्त्रीगीतमङ्गलः । शस्यसम्पादनाल्लोके राजेवर्तुषु राजते || ७३२ ॥ तत्रान्येद्युररविन्दनृपः सौधोपरिस्थितः । रममाणः परस्त्रीभिः सहातिरसनिर्भरम् || ७३३ ॥ अपश्यत् सहसा व्योमव्यापिनं गर्जितोर्जितम् । नवोदयं वारिधरं शक्रचापतडिद्वरम् || ७३४ ॥ क्वचित् कज्जलरोलम्बतमालदलपेशलम् । क्वापि स्फटिकशङ्खेन्दुहिमानीपिण्डपाण्डुरम् || ७३५ ।। कापि हिङ्गुलगुञ्जार्द्धजपाविद्रुमपाटलम् । हरिद्राभङ्गनारङ्गहरितालच्छवि कचित् ।। ७३६ ॥ कचिच्च शुकपिच्छेन्द्रनीलका चसमप्रभम् । नयनाक्षेपकं पञ्चवर्ण निर्वर्ण्यमुन्मुखैः ॥ ७३७ ॥ ( कुलकम् ) अहो ! रम्यत्वमस्येति पार्थिवे वदति क्षणात् । अभाग्याद् धनवन्मेघः स वाताद् विलयं गतः ॥ ७३८ ।। तं दृष्ट्ा निजदेहादावपि तेन सदृक्षताम् । विभाव्य हृदि सञ्जातवैराग्यादित्युवाच सः ॥ ७३९ ॥ अहो ! चित्रमहो ! चित्रं यत् तादृशमपि क्षणात् । घनवृन्दं विदद्रे तद् वातक्षिप्तार्कतूलवत् ॥ ७४० ॥ मन्ये यथाभ्रपटलमिदमग्रे व्यशीर्यत । तथाऽन्यदपि संसारे सर्वे क्षणविनश्वरम् ॥ ७४१ ॥ यतः - विद्युदुद्योतवद् लक्ष्मीरिष्टानां सङ्गमाः पुनः । मार्गस्थतरुविश्रान्तसार्थसंयोगसन्निभाः ॥ ७४२ ॥
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy