________________
५८
श्री पार्श्वनाथचरिते
मरुभूतिः क्षमयितुं जगाम कमठं वने ।। ७१७ ॥ पतित्वा पादयोस्तस्य नीचैः स गद्गदखरम् | क्षन्तव्यं दुष्कृतं भ्रातर्ममाज्ञस्येत्यभाषत ।। ७१८ ॥ प्रणामाऽनुनयात् तस्य कमठस्तीत्रमत्सरः । तप्ततैलं जलक्षेपादिवान्तर्ज्वलितो भृशम् ।। ७१९ ॥ समुत्पाट्य शिलामेकां नमतस्तस्य मस्तके | मुमुचे सहसा कोपाद्दष्टोष्ठः पाटलेक्षणः ।। ७२० ॥ पुनरादाय देहस्योपरि क्षिप्त्वा च तां शिलाम् । निजेन तपसा सार्द्धं कमठस्तमचूर्णयत् ।। ७२१ ॥ तत्महारार्तजातार्तध्यानो मृत्वाऽभवत् करी । स विन्ध्यपर्वते भद्रजातिजो यूथनायकः ।। ७२२ ॥ स्थूलोपलसदृक्कुम्भो गम्भीर मुखकन्दरः । युक्तो जनोर्ध्व संचारदण्डकाकारशुण्डया || ७२३ ॥ पङ्किलीकृत भूभागः प्रोद्दाममदनिर्झरैः । तद्गन्धलुब्धभृङ्गालीकीचकध्वनिबन्धुरः ।। ७२४ ॥ गण्डशैलसमैर्विष्वक् कलभैः परिवेष्टितः । गुरुपादाऽन्वितोऽत्युच्चैर्विन्ध्याद्रिरिव जङ्गमः ।। ७२५ ॥
( कलापकम् ) कोपान्धा वरुणा साsपि कालधर्ममुपेयुषी । तस्यैव यूथनाथस्य वल्लभाऽभूत् करेणुका ॥ ७२६ || गिरिनद्यादिषु खैरं तया सह विशेषतः । अखण्डसुखसम्भोगश्चिक्रीड स गजाग्रणीः ।। ७२७ ॥ इतश्च पोतनपतेररविन्दमहीभुजः । भुञ्जतोऽनुपमं सौख्यं शरत्कालः प्रवृत्तवान् ॥ ७२८ ॥ उपरिस्थरविव्याजसुवर्णकलशान्वितम् ।
सिताभ्रपटलं छत्रायते यत्र नभोङ्गणे ।। ७२९ ॥ सरोगृहेषु स्फटिकोत्तानपट्टाऽमलप्रभे ।