________________
प्रथमः सर्गः । भवान्तरमिवायातं धनस्वजनवर्जितम् ॥७०५॥ पश्यन्नात्मानमेकाकी कमठस्तत्र कानने । शरण्यरहितो दीनो मनस्येवमचिन्तयत् ॥७०६॥
(कलापकम् ) अहो ! सहोदरादेवं शतसंख्येषु बन्धुषु । दानाद्यावर्जिताऽभीष्टसहायेषु सहस्रशः ॥७०७॥ संचितेषु चिरं भूरिवित्तलक्षेषु सत्स्वपि । वैरिणामपि दुर्दर्शा दशा मेऽजनि कीदृशी ॥७०८॥ . अथवा मन्दभाग्यस्य स्तोकमात्रमिदं मम । भवतु प्राप्तकालीनं कुर्वे तावदिहाऽधुना ॥७०९॥ .
(विशेषकम् ) भृशं रोषेण पूर्णोऽपि प्रतिकर्तुमपारयन् । भ्रमन्नितस्ततस्तत्र स ययौ तापसाश्रमम् ॥७१०।। निवेद्य दुःखमात्मीयं शिवतापससंनिधौ । गृहीत्वा तापसी दीक्षां तप्यते स्म गिरौ तपः ॥७११॥ इतश्च मरुभूतिस्तं कमठस्यातिदारुणम् । वृत्तान्तं वीक्ष्य कुत्रापि रतिं न लभतेतराम् ॥७१२।। कोटरान्तःप्रविष्टेन पावकेनेव पादपः । दह्यमानोऽनिशं पश्चात्तापेन मनसोऽन्तरे ॥७१३।। निन्दत्यात्मानमेवं च धिगिदं यन्मयेदृशम् । ज्येष्ठेऽपि बान्धवेऽनिष्टमसमीक्ष्य कृताकृतम् ॥७१४॥
. (युग्मम् ) यथा स्वच्छतया वस्तु दर्पणे प्रतिबिम्ब्यते । शुद्धवृत्ते तथाचित्ते परदुःखं महात्मनः ॥७१५॥ महात्मा परपीडां चेद् दैवतः कुरुते तदा । प्रायश्चित्तसमेन स्वं पश्चात्तापेन शोधयेत् ॥७१६॥ ततः पृष्ट्वा महीनाथं वार्यमाणोऽपि तेन सः ।