________________
श्रीपार्श्वनाथचरितेवरुणः करुणाधीनामर्थिनां धनदः सदा ।। ६९३ ॥ नृणामन्यायलेशोऽपि केशो नेत्र इवाऽमले । मार्गप्रकाशके तस्मिन् न रतिं कुरुते भृशम् ॥६९४॥ दण्डपाशिकमाकार्य कार्यमन्यदचिन्तयन् । आदिदेश विशामीशो द्रुतं कमठनिग्रहे ॥६९५॥ स तस्य भवने गत्वा यमदूत इव स्वयम् । रुद्धवा बढ़ा च कमठं हठादारोप्य रासभे ।। ६९६ ॥ शिखाभिः सप्तभिः श्वभ्रंवर्णिकाभिरिवान्वितम् । उपरिष्टाद् वृतस्थूलैकातपत्राभशूर्पकम् ॥६९७॥ मस्तके कलितं स्थूलबिल्वैः पापफलैरिव । शरावैः कण्ठविन्यस्तवरमालमिवापदा ॥६९८।। पुरतो वाद्यमानोचैर्डिण्डिमोड्डामरस्वरैः। आह्वयन्तमिवाशेषमीक्षकं बालकव्रजम् ॥ ६९९ ॥ भ्रमयित्वा पुरि मध्ये दर्शयित्वा विडम्बनाम् । अवध्यमिति जीवन्तं निष्काश्य मुमुचे बहिः ।। ७०० ॥
(पञ्चभिः कुलकम् ) पुरस्कृतोऽपि तत्रासीत् स पुरस्कारवर्जितः। सदैव कमठोऽप्येवमभूदकमठस्तथा ॥७०१॥ सर्वथा विपरीतात्मा संवृत्तः कर्मदोषतः । सत्यमात्माऽपि नाऽऽत्मीयः प्रतिकूले विधौ भवेत् ॥७०२॥ स्वस्वस्थानं गते राजपूरुषप्रमुख जने । मन्युभारभरेणेव नीचैःकृतशिरोऽधरः ॥ ७०३॥ दुःखातिपातजाताऽश्रुपूर्णाक्षियुगलच्छलात् । खजनस्नेहसौख्यानां यच्छन्निव जलाञ्जलिम् ॥ ७०४॥ भाग्यसूर्यास्तविस्तीर्णतमःश्यामीकृताननः । १ नरेश्वरः । २ श्वभ्रं नरकम् । ३ अकं दुःखम् , तस्य मठः स्थानम् , अकमठः।