SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ सप्तमः सर्गः। ३८३ राज्ञोऽतिक्लभत्वेन साऽथ पृष्टा पुनः पुनः । कोपस्य कारणं कष्टादिवाऽऽचख्यौ सबाष्पदृक् ॥ ४३ ॥ यूयं यदिवसाद् देव ! गता ग्रामान्तरं तदा । आरभ्य तव पुत्राभ्यामहं संक्षोभिता भृशम् ॥ ४४ ॥ पतिभक्त्या च शक्त्या च किन्तु शीलं मया दधे । विचार्याऽतः परं नाथ ! क्रियतां यत् कुलोचितम् ॥४५॥ अलीकवचएधोभिरिति संधुक्षितस्तथा । कोपवहिस्तयो राज्ञो यथाऽन्तर्वलितो भृशम् ॥ ४६ ॥ चण्डमाकार्य मातङ्गमादिदेशाऽथ भूपतिः । अरे ! ग्रामाद् बहिर्वाहक्रीडया स्तः कुमारको ॥ ४७ ।। तत्रात्मपरिवारेण सह गत्वा तयोर्दुतम् । शीर्षे छित्त्वा समानीय दर्शयेर्मम कर्मठ !॥ ४८ ॥ अचिन्तयच्च मातङ्गः किमिदं हन्त ! वैशसम् ? । यदेवंगुणिनोभक्तिशालिनोः कुपितः पिता ॥ ४९ ॥ अस्तु सर्व भविष्येऽस्याऽधुना कालोचितं ब्रुवे । देव ! प्रमाणमादेश इत्युक्त्वाऽगात् तदन्तिके ॥ ५० ॥ रुदंश्च कथयामास तत्स्वरूपं कुमारयोः । ताभ्यां चाऽभाणि भोः ! शीघ्रं कुरु तातसमीहितम् ॥५१॥ गरीयान् कश्चिदावाभ्यामपराधः कृतो ध्रुवम् । अन्यथा कथमत्युग्रमिदं भणति नः पिता ? ॥ ५२ ॥ ततो भूयो निषादेन प्रार्थितौ तौ सगद्गदम् । प्रसद्य मयि वेगेन यातं देशान्तरं युवाम् ॥ ५३ ॥ कुमारावूचतुस्त्वं भोः ! सकुटुम्बो हनिष्यसे । अस्मत्कृते नरेन्द्रेण न कुर्मस्तदिदं वयम् ॥ ५४ ॥ खं रक्षिष्याम्युपायेन विलम्बेथां तु मा युवाम् । तेनेत्युक्तौ च तौ पादचारेणैकां दिशं गतौ ॥ ५५ ॥ १ अदन्तोऽयं भविष्यत्कालवाचकः ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy