________________
श्रीभावदेवमूरिविरचितंन लिप्यन्ते सदात्मानं दधाना भुवनोत्तरम् ॥ ९॥ इत्थमेताननुज्ञाप्य भावोल्लासवशादहम् । मन्दधीरऽपि संक्षिप्तमतीनां हितकाम्यया ॥ १० ॥ अनन्तसुखसर्वस्वनिधानाख्यानबीजकम् । दुष्टमोहविषद्रोहाऽपोहगारुडमुत्तमम् ॥ ११॥ . समस्तविपदुच्छेदसिद्धमन्त्रमयन्त्रितम् । इष्टसम्पत्तिवल्लीनां कन्दकन्दलनाऽम्बुदम् ॥ १२ ॥ संसारोदन्वदुत्तारयानपात्रमखण्डितम् । जरा-मरणविध्वंससुधाकुण्डं यथातथम् ॥ १३ ॥ सुहृदां हृदये दिव्यमुक्ताहारं महागुणम् । कर्णयुग्मे सकर्णानां सद्रत्नखणेकुण्डलम् ॥ १४ ॥ मनोऽतिमत्तमातङ्गबन्धनाऽऽलानमश्लथम् । अज्ञाननिद्राविद्राणसुप्रभातमिदं नृणाम् ॥ १५॥ निबद्धमष्टभिः सर्गः संबद्धं दशभिर्भवैः। चरितं कीर्तयिष्यामि श्रीमत्पार्श्वजिनप्रभोः ॥ १६ ॥
(कुलकम् ) अस्त्यत्र भरतक्षेत्रे पवित्रे पृथवीतले । नानाऽऽरामपुरग्रामसङ्काशाऽऽत्रासमण्डितम् ॥ १७ ॥ कृतपर्वतसंवाददिव्यप्रासादसुन्दरम् । विदेहविजयस्पर्धि विपणिश्रेणिराजितम् ॥ १८ ॥ अनेकाऽनेकैपैरश्वैः नररनैरलंकृतम् । सवारवलयाऽऽकारपाकारजगतीकृतम् ॥ १९ ॥ अपत्यमिव सश्रीकं जम्बुद्वीपस्य विश्रुतम् । .. नगरं विपुलाऽऽकारद्योतनं पोतनाभिधम् ॥ २०॥
(कलापकम् ) १ उदन्वान् समुद्रः । २ अनेकपा हस्तिनः ।