________________
षष्ठः सर्गः।
२८९ चक्रेऽस्य शिरसि च्छत्रं धरणः सप्तभिः फणैः। अधस्तात् तिर्यगूज़ च स्वयशः ख्यापयन्निव ॥ १९३ ॥ तदा च भगवानम्भोमाननालेऽम्बुजे स्थितः । समाधिसुखलीनात्मा राजहंस इवाबभौ ॥ १९४ ॥ वर्षान्तोद्भूतभोगीन्द्रशिरोरत्नाङ्कुरैः प्रभुः ।। दीपोत्सवमिवातन्वन् न कस्याऽऽसीत् शिवंकरः॥१९५॥ चक्रुर्धरणदेव्योऽथ सङ्गीतं भक्तिनिर्भराः । वेणु-वीणा-मृदङ्गादिवाद्यपूर्व पुरः प्रभोः ।। १९६ ॥ धरणो भक्तिमानेवं कमठश्चोपसर्गकृत् । द्वयोरपि तयोस्तुल्यमनोवृत्तिरभूद् विभुः ॥ १९७ ।। येन व्याप्रियमाणेन सुखं दुःखं च वेद्यते । धर्मध्यानलये लीनं तन्मनो हि दृढं विभोः ॥ १९८ ॥ एवं सत्यप्यमर्षेण वर्षन्तं मेघमालिनम् । निरीक्ष्य धरणः कोपात् साक्षेपमिदमब्रवीत् ॥ १९९ ॥ अरे ! किमेतदारेभे स्वस्याऽनर्थाय दुर्मते ! । सहिष्णोरपि भृत्योऽहं सहिष्येऽतः परं नहि ॥ २०० ॥ काष्ठान्तदह्यमानाहिं प्रदश्य प्रभुणाऽसि चेत् । निषिद्धोऽनेन पापात् तत् कोऽपराधः कृतस्तव ? ॥२०१।। लवणायोषरावन्यां मेघवारि यथा भवेत् । तथा सदुपदेशोऽपि वैरायाऽजायत त्वयि ॥ २०२ ॥ निष्कारणारिस्त्वं नाथेऽस्मिन्निष्कारणबान्धवे । रे ! यदेवमपाकास्तिदद्य न भविष्यसि ॥ २०३ ॥ निमज्ज्यते जलै ऽयं त्रिजगत्तारणक्षमः । त्वं त्वगाधे भवाम्भोधौ पापाद् नूनं ब्रुडिष्यसि ॥२०४ ॥ निशम्येदं वचो मेघमाली दृशमधो न्यधात् । तथास्थितमपश्यच्च पार्थ नागेन्द्रसेवितम् ॥ २०५॥ दध्यौ चैवं स भीतः सन् मम शक्तिरियत्यपि ।