________________
पञ्चमः सर्गः ।
भक्तिशक्तिक्षमं वाक्यमिति श्रुत्वाऽश्वसेनराट् । हृष्टः स्तुत्वा कुलं प्रैषीत् पार्श्व तंदोलं विदन् ॥ १९४ ॥ . श्रीपार्श्वोऽथ द्विपारूढः पुरुषोत्तमसंयुतः । प्रतस्थे ऽनेक भूपालैरुत्सवेन शुभे क्षणे ।। १९५ ॥ पुरतः स्वामिनश्चेलुर्गजाश्च लनगा इव । नदीरया इव हया रथाः क्रीडागृहा इव ।। १९६ ॥ पत्तयः कपिवल्गु वल्गन्ति स्म समन्ततः । aisa प्रास्थितैवं प्रभुर्यवनखेलने ॥ १९७ ॥ तदा चलवलोद्धृत रजश्छन्ने नभस्यभूत् । बलाकाभपताकाढ्यं दुर्दिनं किन्तु तत्परे ।। १९८ ॥ वन्दिघोषैश्च शङ्खादिशब्दैर्निवाननिखनैः । उत्सर्पद्भिरभूत् सार्था शब्देऽम्बरगुणप्रथा । १९९ ॥ आद्य एव प्रयाणेऽथ मातलिः सरथः प्रभुम् । उपेत्य नत्वा प्रोवाच नाथाऽहं शक्रसारथिः ॥ २०० ॥ शक्रो जानाति ते शक्तिमतुलां किन्तु सेवकैः । भक्तिः कार्येति सरथं स प्रैषीन्मां त्वदन्तिके ॥ २०१ ॥ मान्या भक्तिमतो भक्तिरिति कृत्वा रथं प्रभुः । आरुरोह हरिर्मेघमिव दिव्यास्त्रभासुरम् || २०२ ॥ खैचरैः स्तूयमानोऽगाद्रथस्थः खेऽर्कवद्विभुः । अन्वियाय च भूमिष्ठमुत्पश्यं तद्बलं पुनः ।। २०३॥ कियद्भिः स दिनैः प्राप कुशस्थलमथाऽवसत् । उद्यानान्तः सुरकृते प्रासादे सप्तभूमिके ॥ २०४ ॥ क्षत्रियाणां स्थितिं पातुं दयया च प्रभुः पुरः । प्रेषहूतं महादक्षं सुशिक्ष्य यवनाऽन्तिके । २०५ ॥ स गत्वा यवनं स्माऽऽह स्वामिभक्त्या ससौष्ठवम् ।
१ पार्श्वभुजबलम् । २ पार्श्वशत्रौ ।
३ आकाशस्य गुणः शब्द इति प्रसिद्धिः ४ प्रथमम् ।
२६९