SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ २६८ श्रीपार्श्वनाथचरिते याचका एव याचन्ते वीराणां खं जगत्त्रयम् ॥१८१॥ स्वयमाच्छिद्य गृह्णानो मृगेन्द्रो विश्रुतो हरिः। . अन्यदत्तं तु गौरिच्छन् वराकः पशुरुच्यते ॥ १८२।। इत्युक्त्वा भूरिभिः सैन्यैरनन्यसमविक्रमः। कुशस्थलपुरं वेगादेत्याऽरौत्सीदनेकधा ॥ १८३ ।। जनस्य पवनस्येव निरुद्धाऽऽगमनिर्गमम् । तत्पुरं कुम्भकापूर्ण योगीन्द्रपुरबद्धभौ ॥ १८४ ॥ अहं न प्रेषितो राज्ञा निशीथे निरगां पुरात् । पुरुषोत्तमनामाऽस्मि मन्त्रिसागरदत्तमः ॥ १८५॥ इमं वृत्तान्तमाख्यातुमिहागममतः परम् । .. देवः करोतु यत् कृत्यं स्वजनेऽरिजनेऽपि वा ॥ १८६ ॥ इत्याकर्ण्य रुषा स्फूर्जन्नश्वसेननृपोऽब्रवीत् । कोऽयं वराको यवनः का भीर्वो मयि सत्यपि ? ॥१८७।। एषोऽहमागतस्त्रातुं सज्जसैन्यः कुशस्थलम् । कार्योऽसतां सतां वाऽपि पक्षपातो मयाऽधुना ॥१८८ ।। इत्युक्त्वाऽवादयद्भम्भां मिलितं चाऽखिलं बलम् । तज्ज्ञात्वाऽगाद् द्रुतं क्रीडागृहात् पार्थो नृपान्तिके ॥१८९।। जगौ च तात ! संरम्भ एष कस्योपरि क्षणात् । समं वाऽप्यधिकं वापि न ते पश्यामि कञ्चन ॥ १९० ॥ अश्वसेननृपोऽङ्गुल्या दर्शयन् पुरुषोत्तमम् । तदुक्तं सर्वमाचख्यौ पुनः पार्थोऽभ्यधादिदम् ॥ १९१ ॥ तिष्टेत् सुरोऽसुरो वाऽपि न तातस्य पुरो युधि । .. नृमात्रं जवनस्त्वेष सिंहस्येव मृगः कियान् ।।१९२॥ यात्राय कोऽयमायासः पितुर्वमामे सुते । पूज्यास्तिष्ठन्त्रिहैवाऽहं करिष्ये तस्य शिक्षणम् ॥ १९३ ॥ ... कुम्भकेन प्राणायामविशेषेण आपूर्ण तत्तथोक्तम् । २ शरीरवत् । ३ कवचक्षमे कार्यसमर्थे सतीति यावत् ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy