SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ ८२ श्रीपार्श्वनाथचरितेमूर्त्या वचःपरिमलेनापि चम्पकपुष्पवत् । तस्यातिशायिना भूपो विस्मितः पृष्टवानिदम् ॥ १३४ ॥ सर्वोत्तमं कुलं नाथ ! ज्ञातं मूत्यैव ते मया । ईदृग्वयसि वैराग्यकारणं किन्तु कथ्यताम् ॥ १३५ ॥ मुनिरूचे महाभाग ! चातुर्गतिकदुःखदः। कारणं भव एवात्र विशेषस्तु निशम्यताम् ।। १३६ ॥ अस्ति सिद्धपुरं नाम नगरे तत्र पार्थिवः । भुवनसार इत्याख्यस्तस्यामात्यो महामतिः १३७ ॥ अन्यदा दाक्षिणात्यानां चङ्गसंगीतकारिणाम् ।। आययौ समुदायोऽदात् स तस्यावसरं नृपः ॥ १३८ ॥ समतालमृदङ्गाद्यातोद्यनादमनोहरम् । तालच्छन्दानुगारब्धनर्तकीनृत्यबन्धुरम् ॥ १३९ ।। समश्रुतिगतैः शुद्धस्वरैरालापसुन्दरैः। गीतध्वनिसुधासारैः पूरितश्रुतिकोटरम् ॥ १४० ॥ आरब्धं प्रेक्षणीयं तैरनारीभिरावृतः। आस्थानस्थो नृपो द्रष्टुं लयलीनः प्रवृत्तवान् ॥ १४१॥ अथो व्यज्ञपयद् वेत्री प्रभोऽष्टाङ्गनिमित्तवित् । बटुरस्त्यागतो देवं दिक्षुर्मुच्यतां न वा ॥ १४२ ।। नृपतिः प्राह मा मुश्च को ह्यस्यावसरोऽधुना ?।। सति प्रेक्षाक्षणेऽत्रैवं देवानामपि दुर्लभे ॥ १४३ ॥ मन्त्र्यूचे मैवमाचक्ष्व यत् प्रेक्षाकौतुकं विभो । सुलभं दुर्लभोऽष्टाङ्गनिमित्तः पुनः पुमान् ॥ १४४ ॥ ततो राज्ञः समादेशाद् मुक्तोऽसौ वेत्रिणा बटुः । आगतः पुस्तिकाहस्तः श्वेतवस्त्रः सदाकृतिः ॥ १४५ ॥ मन्त्रोच्चारणपूर्व च नरेन्द्राय सिताऽक्षतान् । अर्पयित्वाऽपमृत्यासौ यथास्थानमुपाविशत् ॥ १४६॥ गीतसूरसमाप्तौ च स राज्ञा भाषितो यथा ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy