________________
द्वितीयः सर्गः।
पुनर्निरपराधानां पशूनां तृणमश्नताम् । प्रहरन्ति गतास्त्राणां ये तेषां क्षत्रता कुतः १ ॥ १२२ ॥ वैरिणोऽपि हि मुच्यन्ते प्राणान्ते तृणभक्षणात् । तृणाहाराः सदैवते हन्यन्ते पशवः कथम् ? ॥ १२३ ॥ चुकितास्तव किं कोशेऽन्तःपुरे नगरेऽपि वा ? । दीनानशरणानेवं यदस्मान् हंसि भूपते ! ॥ १२४ ॥ अत उच्यतेमीन-रङ्क-सतां नीर-तृण-सन्तोषवर्तिनाम् । धीवरा लुब्धकाः क्षुद्रा हा ! निष्कारणवैरिणः ।। १२५ ॥ इति श्रुत्वा नृपोऽमात्यमुवाच महदद्भुतम् । मर्त्यवाचा प्रजल्पन्ति निर्भयाः पशवोऽपि यत् ॥ १२६ ।। मन्त्रिणा भणितं देव ! देवोऽयं दानवोऽथवा । केनापि हेतुना क्लुप्तमृगवेषोऽवतीर्णवान् ॥ १२७ ॥ तद् गच्छ त्वरितं मुञ्च वाजिनं मुक्तकं करात् । प्रेक्षस्व किं करोत्येष ततो भूपस्तथाऽकरोत् ।। १२८ ।। उच्चोच्चझम्पया याति मृगो राजाऽपि पृष्ठतः । तावद् दूरे वनस्यान्तः प्रेक्षते मुनिपुङ्गवम् ।। १२९ ।। प्रलम्बभुजमुत्तप्तस्वर्णवर्ण सुदर्शनम् । द्विधापि जितकन्दर्प देहेन मनसापि च ॥ १३० ॥ निरुद्धवचनं मुक्तचेष्टमेकाग्रमानसम् । नासाग्रन्यस्तदृष्टिं च ध्यायन्तं ब्रह्म किञ्चन ॥ १३१ ॥
(त्रिभिर्विशेषकम् ) ततोऽवोचद् मृगो भो भोः ! नमतेमं महामुनिम्। , अवन्देतां च तं वाहादुत्तीर्य नृप-मन्त्रिणौ ॥ १३२ ॥ निविष्टौ तत्र तो यावत् तावत् सैन्यमपि क्षणात् । . अन्वगाद् मुनिरप्याख्यद् ध्यानान्ते धर्मदेशनाम् ॥१३३॥ १ समाप्ता इति तत्वम् । २ क्षेप्यशस्त्रम् ।।