________________
श्रीपार्श्वनाथचरिते
तृतीयः प्राह हन्तव्या नरा एव न हि स्त्रियः । तुर्येणाऽभाणि हन्यन्तां पुरुषेष्वपि सायुधाः ।। १०९ ॥ पञ्चमोऽप्याह ये घ्नन्ति ते वध्याः सायुधेष्वपि । षष्ठस्त्वाह विना शत्रून् घातः कार्यों न कस्यचित् ॥११०॥ इति भिन्नं मनस्तेषामभल्लेश्याविशेषतः । ताः कृष्ण-नील-कापोत-तेजः पद्म-सिताभिधाः ॥ १११ ॥ तदेवं तारतम्येन विशुद्धपरिणामतः । येन सर्वे रिपुभ्योऽन्ये रक्षिताः सोऽपि सत्तमः ॥११२॥ किञ्च, उत्तमा लघुकर्माणः स्तोकादप्युपदेशतः । कुपवृत्तेर्निवर्तन्ते नलधर्मो यथा नृपः ॥ ११३ ॥ कोऽयं कथमयं बुद्धो नलधर्मनृपः प्रभो ! ? | इति पृष्टे कुमारेण गुरुः प्राह निशम्यताम् ।। ११४ ॥ विजयाख्ये पुरे पूर्व नलधर्माभिधोऽभवत् । राजा राजेव यः पूर्णकलया प्रिययान्वितः ॥ ११५॥ तस्याऽऽसीत् तिलको मन्त्री मन्त्रिणां तिलकोपमः । बुद्ध्या लोकस्य राज्ञश्च रञ्जयामास यो मनः ॥ ११६॥ अन्यदा मृगयार्थ सोऽश्वारूढः प्रस्थितो नृपः। गतोऽरण्यं क्रमात् तत्र प्रसृतं सर्वतो बलम् ॥ ११७ ॥ स्वयं तु मन्त्रिणा साधं यावदग्रतरं व्रजेत् ।। तावदेकं मृगं दीर्घदृढशृङ्गं ददर्श सः ॥ ११८ ॥ चापमारोप्य बाणेन तं जिघांसु मृगोऽब्रवीत् । क्षत्रस्य युज्यते किं ते यन्मां बाणेन विध्यसि ? ॥११९॥ नो क्षत्रशब्दस्याऽर्थ त्वं जानासि यदहो ! क्षतात् । त्रायन्ते सकलं लोकं कथ्यन्ते क्षत्रियास्ततः॥ १२० ॥ कुलद्वयविशुद्धा ये क्षत्रियाः सत्त्वशालिनः । नैव तेऽपगताऽस्त्रस्य प्रहरन्ति रिपोरपि ॥ १२१ ॥