________________
द्वितीयः सर्गः। कुशलं भो निमित्तज्ञ ! बटुर्दीनमथाब्रवीत् ॥ १४७॥ कुशलं तादृशं देव ! यादृग् वक्तुं न शक्यते । क्षुभितेनोदितं राज्ञा किमभ्रं भोः ! पतिष्यति ॥ १४८ ॥ स प्राह सत्यमेवेदं यत् त्वया गदितं विभो !। . निमित्तेन मया ज्ञातं मा कोपं कुरु भूपते ! ॥ १४९ ।। सशङ्केन ततो राज्ञा भणितं पुनरादरात् । निःशङ्कं ब्रूहि यज् ज्ञातं त्वया ज्ञानेन सुन्दर ! ॥ १५० ॥ सोऽप्याह देव ! किं तेनाऽशिवेन कथितेन यत् । निरोढुं शक्यते नैव तथापि तव कथ्यते ॥ १५१ ।। मुहूर्तानन्तरं धाराधरोऽद्य धरिणीतले । मुसलाकारधाराभिर्वर्षिष्यति तथा, कथम् ॥ १५२ ॥ यथा ह्यफलितस्थूलस्थलपासादमन्दिरम् ।। सर्वमेकार्णवाकारं पुरमेतद् भविष्यति ॥ १५३ ॥
. (युग्मम्) ब्रुवाणस्यैव तस्यैवं भ्रान्त्वाऽभूदुत्तरोऽनिलः। कच्चोलमुखमात्रं च मेघरखण्डं समुन्नतम् ।। १५४ ॥ बटुः पटुरथ ब्रूते प्रेक्ष्यतामभ्रकं जनाः । उत्तरस्यामिदं व्योम सर्व प्रच्छादयिष्यति ।। १५५ ॥ व्योम गन्तुमिवाऽऽस्थानलोकः सर्वोऽप्युदैवत । • अभ्रखण्डं तु तं रोडुमिव प्रसृतमम्बरे ॥ १५६ ।। तस्य स्तनितनादेन भीतेव कुरुते मही ।। प्रतिशब्दमिषाद् बुम्बारवं गिरिगुहामुखैः ॥ १५७ ॥ उद्दण्डाश्च तडिद्दण्डाः स्फुरन्ति स्म घनान्तरे। जिह्वा कालमुखस्येव चश्चला ग्रसितुं महीम् ॥ १५८ ।। नृपप्रभृतिलोकानां पश्यतां भीतिविस्मितम् । घनो मुसलधाराभिरारेभे वर्षितुं ततः ॥ १५९ ॥ १. कच्चोलं पात्रविशेषः ।।