________________
तृतीयः सर्गः ।
२११
विद्धीदानीं स्त्रियो भर्तृदेवता न परात्मिकाः ॥७२६ ॥ यत् प्राह व्यवहारज्ञस्त्वन्मन्त्री तत्र ते मतम् । इत्युक्ते तापसेनाह राजाऽपि मुनिपुङ्गवम् ।। ७२७ ॥ मम स्त्रैणस्य पौंस्नस्य देश - कोशा-श्व- हस्तिनाम् । किमन्यद् देव्याः पुत्रस्य त्वमेव स्वाम्यतः परम् ॥७२८|| तत्त्वं चेन्मन्यसे देवी तदायातु मया सह । देव्या विसृज त्वं मां मुने ! स प्राह याहि तत् ।। ७२९ || किन्तु मुक्त्वाssभरणानि यातेति मुनिनोदिते । मुमोच नृपतिः सर्वे नेपथ्यं मुकुटादिकम् ।। ७३० । सुताराऽऽह पुनः किञ्चिदस्त्ववैधव्यलक्षणम् । भूषणं भगवन्नेवं निशम्य मुनिरब्रवीत् ॥७३१|| तव भद्रे ! हरिश्चन्द्र एवाऽवैधव्यलक्षणम् । इति वाचि मुनौ सास्रा सुताराऽप्यभवत् ततः ॥ ७३२॥ मन्त्री प्राह मुनिं कोपादरेरे ! ब्रह्मराक्षस ! | नृपो विज्ञो ददत् ते क्ष्मां किं वा गृह्णन्नितो भवान् ? ॥७३३। क्रुधा प्रोचे मुनिर्नाऽयं कृत्येषु विदुरो नृपः । नचाऽहमपि विज्ञोऽस्मि, विज्ञस्त्वं योऽन्तरायकृत् ॥७३४|| मुनिः कुधाऽक्षिपद् भूमौ गृहीत्वाम्भः कमण्डलोः । आह चास्ति तपचेन्मे तदा त्वं द्राक् शुको भव ।। ७३५ ।। ततश्च सचिवः कीरो भूत्वाऽगाद् नभसा कचित् । राजा तु सभयं नत्वाऽवोचदेष गतोऽस्म्यहम् ॥ ७३६ ॥ निवार्य रुदतो भूपः पूर्लोकानन्वयप्रियान् । क्षमयित्वा स्वापराधान् प्रतस्थे सप्रिया-सुतः ॥ ७३७ ॥ अनुरागाल्लुठद्वाष्पमनुयान्तं पुरीजनम् । कष्टान्निवर्तयामास राजा स्नेह गिरा मृदुः ॥ ७३८ ॥ प्रचलन् साविकः पुत्र- कलत्राभ्यां समन्वितः । १ स्त्रीसमूहस्य । २ नरनिकरस्य ।