________________
श्रीपार्श्वनाथचरितेवारणीयं धृतोन्मुक्तं रज्जुबद्धोक्षवद् मनः ॥ ७२१ ॥ अभ्यासमनया युक्त्या कुर्वतो योगिनः क्रमात् । अङ्गुल्यग्रस्थितो दण्ड इव स्थैर्य मनः श्रयेत् ॥ ७२२ ॥ घनात् स्तोके मनो योगी स्थूलात् सूक्ष्मे नियोजयेत् । परमाणौ ततो दध्याद् दंशे मान्त्रिकवद् विषम् ॥ ७२३ ।। स्थैर्यस्थे सति चित्ते च वारीवात्मा स्वमीक्षते । चिन्मयः स्यात् ततो नालोद्भेदात् कूप इवाऽम्मयः ॥७२४॥ द्रुतिः पुष्पे घृतं दुग्धे तेजः काष्ठे यथा स्थितम् । ज्ञानं जीवे तथा किन्तु व्यक्तीस्यात् परिकर्मणा ॥७२५॥ इति सारोपदेशं तं सम्यग् ध्यात्वा नृपो हृदि । ज्ञानातिशयसंपन्नं पप्रच्छेदं पुनर्मुनिम् ॥ ७२६ ।। अनयोरुपरि खामिन् ! मम ब्रूहि कुतोऽभवत् । भिन्नजातिक्रमस्थानस्यापि स्नेहोऽयमीदृशः ? ॥ ७२७॥ ततश्चन्द्रादिमित्राणि सुन्दरश्वाऽपि कर्मकृत् । यथाऽऽसीत् तत् तथा सर्व कथयामास केवली ॥ ७२८ ।। तत् श्रुत्वा नृपतिर्जातजातिस्मृतिरतीव सः । मुनिदानप्रभावेन प्रतनूकृतकर्मकः ।। ७२९ ॥ प्रवर्धमानसंवेगात् संस्थाप्य स्वपदे सुतम् । पर्यव्राजीत् सभायौं च श्रीवर्धन-मनोरमौ ॥ ७३० ॥
(युग्मम्) स्नेहान्ते शालिवद्दीक्षामवाप्य शमगोरसम् । चारुवैराग्यकर्पूरैवासं भुञ्जीत भाग्यवान् ॥ ७३१ ॥ निरवयं तपः कृत्वा ययुः सर्वे सुरालयम् । पुनमादिसामग्रीमाप्य सेत्स्यन्ति तेऽचिरात् ॥ ७३२ ॥ त्रिविधस्याऽपि दानस्य माहात्म्यमिति वर्णितम् । शीलनाम्नो द्वितीयस्य धर्माङ्गस्य प्रचक्ष्यते ॥ ७३३ ॥ १ जलमयः । २ अव्यक्तं व्यक्तं स्यात् । ३ मार्जनेन ।