SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ षष्ठः सर्गः। ३३१ शौचानां परमं शौचं गुणानां परमो गुणः । प्रभावमहिमाधाम शीलमेकं जगत्त्रये ।। ७३४ ॥ तथाहिदाक्ष्यं भूषणमैश्वर्ये शौर्ये वाक्यस्य संयमः । ज्ञानस्योपशमः स्फीतः श्रुतस्य विनयः पुनः ।। ७३५ ॥ अक्रोधस्तपसो भूषा सामर्थ्यस्य सहिष्णुता । पात्रव्ययश्च वित्तस्य दानस्य प्रियभाषणम् ॥ ७३६ ॥ निर्व्याजता च धर्मस्य सर्वेषां पुनरुज्ज्वलम् । भूष्यभूषणभावानां शीलं परमभूषणम् ।। ७३७ ॥ तच्च चारित्ररूपं च ब्रह्मरूपं च कथ्यते । चारित्रं च द्विधा सर्व-देशचारित्रभेदतः ॥ ७३८ ॥ यतिधर्मो दशविधः सर्वचारित्रमुच्यते । यः सम्यक् सेवितः शीघ्रं भवेद् मुक्तिपदपदः ।। ७४९ ॥ संयमः सूनृतं शौचं ब्रह्माकिञ्चनता तपः । शान्तिर्दिवमृजुता मुक्तिश्च दशधा स तु ।। ७४० ॥ तत्रपञ्चाश्रवपरीहारः कषायेन्द्रियनिग्रहः । त्रिदण्डविरतिः सनदशधा संयमो भवेत् ॥ ७४१ ॥ सूनृतं च भय-क्रोध-लोभ-हास्यैर्मषोज्झनम् । शौचं शुद्धिर्बहिश्वान्तरयुक्तोपधिवर्जनात् ।। ७४२॥ दिव्यौदारिक-कामानां निषेधो ब्रह्म कथ्यते । आकिञ्चन्यं त्वमूर्छा या सत्स्वथाऽसत्सु वस्तुषु ॥७४३॥ तपो द्वादशधा ज्ञेयं बाह्या-ऽभ्यन्तरभेदतः । स्वशरीरगतं बाह्यमन्यद् योगक्रियागतम् ॥ ७४४॥ तथाचअनशनमौनोदर्य वृत्तिसंक्षेपणं तथा। रसत्यागस्तनुक्लेशो लीनतेति बहिस्तपः ।। ७४५ ॥
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy