SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ ३३२ श्रीपार्श्वनाथचरिते प्रायश्चित्तं वैयाकृत्यं स्वाध्यायो विनयोऽपि च । व्युत्सर्गोऽथ शुभध्यानं-छोटेत्याभ्यन्तरं तपः ।। ७४६ ॥ क्षान्तिः सहिष्णुतारूपा मार्दवं मानवर्जनम् । आर्जवं प्राञ्जलत्वं यद् मुक्तिर्निर्लोभता पुनः ॥ ७४७ ॥ इत्येवं यतिधर्मस्य स्पष्टं भेदा दशाऽप्यमी । विवृताः, सर्वचारित्रमियता परिकीर्तितम् ॥ ॥ ७४८ ॥ तत् पुनर्देशचारित्रं यो द्वादशवतात्मकः । गृहिधर्मः क्रमात् त्वेष सिद्धिसौख्यविधायकः ॥ ७४९ ॥ अहिंसा-सूनृता-ऽस्तेय-ब्रह्मचर्या-ऽपरिग्रहान् । स्थूलत्वात् पालितान् पञ्चाऽणुव्रतानि जगुर्जिनाः ॥७५०॥ दिविरतिव्रतं भौगोपभोगपरिमाणकम् । अनर्थदण्डविरतिश्चैतद् गुणवतत्रयम् ॥ ७५१ ॥ सामायिकं च देशावकाशिकं पौषधं तथा । अतिथिसंविभागाख्यं शिक्षाबतचतुष्टयी ।। ७५२ ॥ नामतः कीर्तितान्येवं व्रतानि द्वादशापि हि । अथो विवरणं तेषां क्रमेणैव प्रचक्ष्यते ॥ ७५३ ॥ त्रसान् जीवान् प्रयत्नेन प्रायेण स्थावरानपि । आत्मवद् रक्षति गृही यत्राहिंसावतं हि तत् ॥ ७५४ ॥ सर्वलोकविरुद्धं यत् कूटसाक्ष्यादिवर्जनम् । विमृश्य प्रोच्यते तथ्यं तद् भवेत् सूनृतवतम् ॥ ७५५ ॥ आहितं स्थापितं नष्टं पतितं विस्मृतं स्थितम् । अगृह्णतः परद्रव्यं तृतीयाणुव्रतं भवेत् ॥ ७५६ ।। विश्वप्रशस्यं सुधियां परब्रह्मैककारणम् ।। परकान्तानभिगमश्चतुर्थव्रतमुच्यते ॥ ७५७ ॥ क्षेत्रस्य वास्तुनः कुप्याऽकुप्ययोर्धन-धान्ययोः । चतुष्पद-द्विपदयोर्या सङ्ख्या सोऽपरिग्रहः ।। ७५८ ॥ जीवोपमर्दनाभीतैः कृता दिक्षु दशस्वपि ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy