________________
श्रीपार्श्वनाथचरिते
अहो ! विजयराजर्षे ! हितमेकमनाः शृणु ॥ ३३४ ॥ सर्वत्रौचित्यवर्तित्वमुपेक्षा परदूषणे । परेणात्ते गुणे दोषे क्षमायां धर्मसंग्रहः || ३३५ || औचित्याचक्षुषि न्यस्तं श्रिये कज्जलमप्यहो ! | अनौचित्येन पादस्थं न कुण्डलमपीष्यते ।। ३३६ ॥ विमृश्याय-व्ययं धर्मकार्यं कुर्यात् तथा बुधः निश्चय व्यवहाराभ्यां यथा बहुगुणं भवेत् ।। ३३७ ॥ केवलं व्यवहारोऽन्तं नैति नद्योघगामिवत् । सदोत्सर्गोऽप्यगच्छेदाद् ऋजुगामीव नो मतः ॥ ३३८ ॥ यथैवाऽछिन्दता वृक्षं गृह्यते तस्य तत् फलम् । . व्यवहारमनुल्लङ्घय ध्यातव्यो निश्चयस्तथा ।। ३३९ ।। निश्चयस्तसारोऽपि व्यवहारेण निर्वहेत् ।
३००
सकलस्याऽपि देवस्य रक्षा प्राहरिकैर्भवेत् ॥ ३४० ॥ निम्नोन्नतादिवैषम्यं विदित्वा सर्ववस्तुषु । मध्याङ्कव्यवहारेण सूत्रधारः प्रवर्तते ।। ३४१ ॥ आत्मोत्कर्ष - परद्वेषपरे प्रायः कलौ जने ।
प्राप्य तत्त्वामृतं धीरः कलिं कृत्वा न हारयेत् || ३४२ || जिनेन निगृहीता ये रागद्वेषादयो हठात् । तान् ये पुष्णन्त्यसौ तेषां कथं नाथः प्रसीदति ? || ३४३ ॥ ! अज्ञानाद् दृष्टिवन्धेन पदबन्धेन गेहिनः । रुध्यन्ते ते पुनः शोच्या ये रुद्धा बन्धनं विना || ३४४ || दूरेऽस्तु परदोषस्याऽऽदानं स्वपरतापकम् । धत्ते तत्स्पर्शमात्रेऽपि हृद् वाग् मालिन्यमुल्बणम् || ३४५ || सन्तो गुणप्रियास्तेन परणात्ते गुणे भृशम् । हृष्टाः, नीचास्तु दूयन्ते येन ते दोषवत्सलाः ।। ३४६ ॥ कृतप्रतिकृता वृद्धिः स्यात् सम्बन्ध - विरोधयोः । परोक्तं तेन नो धत्ते योगी लाभनकोपमम् || ३४७ ॥