________________
षष्ठः सर्गः
महतां दूषणोद्धारादुपकारी खलः खलु ।
मुधा निदायकं सस्यक्षेत्रे को नाभिनन्दति १ ॥ ३४८ ॥ अर्थमिच्छन्ति सन्तोऽपि किन्त्वनौपाधिकत्वतः । स्वगुणख्यापनान्पध्याः नीचास्तु परदूषणात् || ३४९ ॥ आस्तां स्वात्ताऽऽतपत्राभं स्वगुणोच्चारणं स्वयम् । अन्येनाऽपि गुणे ह्यात्ते साधुर्नम्रो हिया भवेत् || ३५०॥ दूषयित्वाऽन्यवस्तूनि गुणारोपं स्ववस्तुनः । वणिग्धर्मेऽपि शौचात्मा न कुर्यात् किं पुनर्यतिः १ ॥३५१॥ उद्धर्तु नैव शक्यन्ते सर्वतो भुवि कण्टकाः । स्वयं तु शक्यते मोक्तुं पादो निष्कण्टकक्षितौ ॥ ३५२ ॥ रक्ता देह यशो धर्मे पत्र - पुष्प फलप्रभे ।
1
३०१.
तदा त्वचिरनित्यस्थे स्वल्पधी - मध्यमोत्तमाः ॥ ३५३ ॥ चक्षुः श्रवणवैकल्यात् पापानां मोहनिद्रया । दिवाऽपि रजनी, साऽपि धर्मिणां दिवसायते ।। ३५४ ॥ कलिकालकुवा वाति यस्य विनश्यति ।
न सस्यं, शस्यते लोके स एव पृथुभाग्यभूः ।। ३५५ ।। रजःक्रीडापरे लोके धूलिपर्वसमे कलौ । तद्वाक्यतिलकं मत्वा रक्षत्यात्मानमात्मवित् ॥ ३५६ ॥ सुषमत्वात् सुखोत्तारास्तता अपि कृतादयः । दुस्तरो विषमावर्तः स्वल्पोऽपि हि कलिः पुनः || ३५७॥ पुरुषार्थद्विषं ज्ञात्वा प्रकृतिं स्वार्थतत्पराम् । धूर्त मैत्र्या ततः स्वार्थ यः करोति स चेतनः ।। ३५८ ।। अजीर्ण तपसः क्रोधो ज्ञानाजीर्णमहंकृतिः । परतप्तिः क्रियाजीणं जित्वा त्रीन् निर्वृतो भव ॥ ३५९ ॥ सद्यः प्रीतिकरं लोके वचो वाच्यं हितं मतम् | मूर्खः स्वमुखलालाभिरेव लूतेव बध्यते ।। ३६० || १ उच्छेदकम् । २ कृतयुगादयः ।