SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ २५ चतुर्थः सर्गः । उपानत्-खड्ग-मुकुट-च्छत्र चामरलक्षणम् । पश्चकं राजचिह्नानां दूरे मुक्त्वा ननाम तम् ।। १२८ ॥ निषद्य च यथास्थानं स चातक इवोच्चकैः। . पपौ जिनघनोद्भूतदेशनाजलमुज्ज्वलम् ॥ १२९ ॥ संबोध्य भूयशो भव्यान् भगवानन्यतो ययौ । . वर्णबाहुनृपोऽपि स्वं धाम धृत्वा जिनं हृदि ॥ १३० ॥ तीर्थकद्देशनाऽऽयातान् स्मारं स्मारं सुरान्नृपः । कैते दृष्टा मयेत्यूहापोहाज्जातिस्मृति ययौ ? ॥ १३१ ॥ दध्यौ च प्राग्भवान् पश्यन् प्रतिमर्त्य भवं मम ।। अपि प्रयतमानस्य भवान्तो नाधुनाऽपि हि ॥ १३२ ॥ देवत्वमाप यस्तादृक् स मर्त्यत्वेऽपि तुष्यति । ध्वस्तचेतनचैतन्यं महामोहविजृम्भितम् ॥ १३३ ।। भवचक्राधिरूढस्य भ्रमतोऽपि निरन्तरम् । . स्थितिस्तत्रैव, मोक्षाय तद् यतिष्ये विशेषतः ॥ १३४ ॥ निश्चित्यैवं निजे न्यस्य स्वर्णबाहुः पदे सुतम् । तदायातजगन्नाथतीर्थनाथाऽन्तिके ययौ ॥१३५ ॥ तत्याजोपाधिकी भूषां मुक्तये गुणभूषणः । प्रौढा मुक्तिर्वधर्यन रज्यते बाह्यभूषणैः ॥ ॥ १३६ ।। जगन्नाथमथाऽभ्यर्च्य प्रव्रज्यां जगृहे नृपः । तप्यमानस्तपश्चोग्रं गीतार्थः स क्रमादभूत् ॥ १३७ ।। हृदिस्थजिनपूर्णेन्दुल्लसच्छमसुधारसः । . स चन्द्रमणिवत् केषां न तापं निरवापयत् ? ॥ १३८ । किश्च, असव्य-सव्यचक्राभे सदसत्कर्मचक्रके। भ्रंमति स्थिरक्लुप्तात्मसंस्थानोऽतिजनेऽपि सन् ॥१३९ ॥ धर्मध्यानेषुणा यन्त्रपुत्रीब्रह्मकलां पराम् । १ सप्तम्यन्तम् । . . .
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy