________________
२५२
श्रीपार्श्वनाथचरितेभित्त्वा निर्दृतिकन्यां यः प्रोद्ववेत् स नरो वरः ॥ १४ ॥
- (युग्मम्) कियद्भिः सेवितैः स्थानः स्थानविंशतिमध्यतः । शनैरुपार्जयामास तीर्थकृन्नाम कर्म सः ॥ १४१ ॥ अर्हत्-सिद्ध-प्रवचन-गुरु-स्थविर-सुश्रुते । तपस्विषु च वात्सल्यं ज्ञानाभ्यसन मष्टमम् ॥ १४२ ॥ दर्शने विनये चाऽऽवश्यके शीलवते तथा । शुद्धिः क्षणलवध्यानं तपस्-त्यागौ च सर्वदा ॥ १४३ ॥ वैयावृत्त्यं समाधिश्वाऽपूर्वज्ञानस्य संग्रहः। तीर्थोन्नतिः श्रुते भक्तिरित्युक्ता स्थानविंशतिः ॥ १४४ ॥ विहरनेकदा प्राप्य स क्षीरगिरिसन्निधौ । महाटवीं क्षीरवणां तस्थौ प्रतिमया मुनिः ॥ १४५ ॥ कुरङ्गकोऽपि नरकादुद्वृत्त्य तत्र पर्वते । सिंहो बभूव भ्राम्यंश्च दैवात् तत्र समाययौ ॥ १४६॥ अतीतवासरेऽप्येष भक्ष्याऽलाभेऽतिसक्षुधः । दूरादपि महर्षि तमद्राक्षीद् यमभीषणः ॥ १४७ ।। क्षुद्रो जात्या हरिः प्राच्यवैरादास्यं प्रसार्य सः । अभ्यधावत् सटांधुन्वन् पुच्छेनाऽऽच्छोटयन् महीम् ॥१४८॥ तदा तत्कृतपूत्कारप्रतिशब्दमिषाद् गिरिः। कठोरात्माऽपि पूत्कारमिवाऽऽा विदधे मुनेः ॥ १४९॥ रौद्रध्यानो मृगेन्द्रस्तं धर्मध्यानस्थितं मुनिम् । प्रतीपमिव मन्वान उत्फालोऽहन् चपेटया ॥ १५० ॥ ततो मुनिर्विशेषेण ध्यानमापूरयन् शुभम् । कष्टे हि महतां सत्त्वं सहायं यत् सुभृत्यवत् ॥ १५१ ॥ दध्यौ च हृदि धन्योऽद्य दिवसो यत्र मेऽजनि । आसन्नमृत्योराजन्मनिव्यूढवतनिश्चयः ॥ १५२ ।। स चाऽयं कृत एखेन ततो मेऽस्मिन् मनागपि ।