SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः । २५३ न विरुद्धं हरौ कर्तुं मानसं युज्यतेऽधुना ॥ १५३ ॥ दुष्कर्मक्षपिताऽयं मेऽस्याsहं पापप्रदः पुनः । इति सिंहे कृपां चक्रे स महात्मा विशेषतः ।। १५४ ॥ स कृत्वाssलोचनां सम्यक् क्षामणां चाऽखिलाऽङ्गिषु । चक्रे चतुर्विधाहारमत्याख्यानं समाहितः ।। १५५ ।। इक्षो रसं यथाssदाय कूर्चकस्त्यज्यते जनैः । धर्मसारं तथाssदाय देहं त्यजति पण्डितः ॥ १५६ ॥ विदीर्णो हरिणा मृत्वा स मुनिः प्राणते दिवि । महाप्रभविमानेऽभूद् विंशत्यधिस्थितिः सुरः ॥ १५७ ॥ पक्षैकरम्यं मन्दानां भाग्यं मायूरपिच्छवत् । पक्षद्वये तु विदुषां सुन्दरं चाषपक्षवत् ।। १५८ ।। मृत्वा सिंहोऽपि पापात्मा चतुर्थे नरकं गतः । दशार्णवस्थितिस्तीव्र वेदनाः सहति स्म सः ।। १५९ ॥ तस्मादुद्धृत्य विविधतिर्यग्योनिषु चाऽभ्रमत् । सर्वत्रासादयन् दुःखं दुःश्रवं श्रवसोरपि ।। १६० ।। यः सर्वैरपि सेव्यते सुकृतिभिर्थ्यायन्ति यं योगिनो । येनाsतारि भवोदधिर्बुधजना यस्मै नमस्कुर्वते ।। १६१ ॥ यस्माद् ज्ञानधनागमस्त्रिभुवने यस्याऽस्त्यनन्तं सुखं । लीनं यत्र सतां मनः स दिशताद् वः पुण्यभावं जिनः १६२ इति श्रीकालिकाचार्य सन्तानीय श्रीभावदेवसूरिविरचिते श्रीपार्श्वनाथचरित्रे महाकाव्येऽष्टसर्गे भावाङ्के श्रीपार्श्वनाथाऽष्टमनवमभववर्णनो नाम चतुर्थः सर्गः ॥ ४ ॥
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy