________________
प्रथमः सर्गः ।
एभ्यो जातश्चिरात् तावत् ते गताः स्वसमानऽपि । पश्यन् मृत्युहतानेष चित्रं जन्तुरनाकुल: ।। ७५६ ॥ स्थित्वापि सुचिरं भोगा गमिष्यन्ति न संशयः । तस्मादेते स्वयं त्यक्ताः कुर्युः शमसुखं महत् ।। ७५७ ।। मह प्राप्य सदेहं पण्यगेहं नरोऽत्र यः । तल्लालनपरः स्वार्थ नार्जयेत् तस्य का गतिः ? ।। ७५८ ।। इति राजा विवेकख्यमन्त्रनीरेण मोहजे । अन्तरङ्गदृशोर्बन्धे ध्वस्तेऽपश्यद् यथास्थितम् ।। ७५९ ।। इत्थं तं विरक्तात्मानं नृपं ज्ञात्वा व्रतोन्मुखम् | सदुःखमित्यभाषिष्ट रुदन्नन्तः पुरीजनः || ७६० ॥ तत्र राज्यपरित्यागवार्त्तयाऽशनितुल्यया । हृदयं यावदस्माकं शतखण्डं न भिद्यते ॥ ७६१ ॥ तावत्प्रसीद मुञ्चेममाग्रहं जीवितेश्वर ! | क तपः कर्कशं केदं सुकुमारं वपुस्तव ? || ७६२ ।। ( युग्मम् )
६१
किं जातिकुसुमे वह्निः क्षिप्यते किं महाकरी | मृणाले बध्यते किंवा रम्भा क्रकचमर्हति ? || ७६३ ।। त्यागः शौर्यमुभावेतावनन्यसदृशौ गुणौ ।
त्वयि मत्रजिते नाथ ! पदं कुत्र करिष्यतः । ७६४ ।। विजयश्रीवर स्वामिंस्त्वया पालितपोषिताः । लप्स्यन्तेऽमूः कुतोऽन्यस्मात् पितृमातृसुखं प्रजाः || ७६५॥ तद्देव ! सर्वथाऽप्यऽस्माद् रक्ष रक्ष भयङ्करात् । अकाले कालग्रसनात् कुरु राज्यं चिरं प्रिय ! || ७६६॥ इत्येवं प्रबलस्नेहनिर्भरा निजवल्लभाः । संबोधयितुमारब्धो दक्षः सप्रणयं नृपः ॥ ७६७ ॥ हे ! प्रियाः ! कस्य नाभीष्टः प्रिययोगो न कः श्रियम् ? ।
ईहते किंतु मत्तेभकर्णलोलं हि जीवितम् ॥ ७६८ ।।
1