________________
सप्तमः सर्गः।
४२१ संतोषश्च यथालब्धे लब्धिश्च प्रायशो जनात् । जज्ञे किन्त्वस्य निःसत्त्वात् क्षणमेवं मनस्यभूत् ॥ ५३६ ॥ किं नमस्कारमात्रेण भविताऽनेन मे फलम् । अथवा धिगिदं ध्यातं सर्वसिद्धिरतो ध्रुवम् ॥ ५३७ ।। चलदित्यन्तरा चित्तं तस्य स्थिर यतो भृशम् । आयुर्निर्वाह्य कालेन पर्यन्तसमयोऽभवत् ॥ ५३८ ।। या पूर्व रङ्कमात्रस्य दृष्टा सुस्थितभूपतिम् । इच्छा बभूव राज्यस्य सा तदा हृदयेऽवसत् ।। ५३९ ॥ एवं च चिन्तयामास किमुत्तमकुलैनेरैः । कुले नीचेऽपि जातस्य भाग्यमेकं प्रशस्यते ॥ ५४० ॥ इति ध्यानपरः स्मृत्वा भणित्वा च मुहुर्मुहुः । वीतरागस्तुतिश्लोकं कालं कृत्वा समाहितः ।। ५४१ ॥ तत्रैव नगरे सोमनाम्नो राजपुरोधसः । गृहकर्मकरीकुक्षौ पुत्रत्वेनोदपद्यत ॥ ५४२ ॥
(युग्मम् ) तस्य जन्म द्रुतं गत्वा पुरुषेण निवेदितम् । सभाऽऽसीननृपाऽऽसनोपविष्टस्य पुरोधसः ।। ५४३ ॥ लग्नं तत्र क्षणे स्वामियुतमुच्चाऽखिलग्रहम् । शुभयोगबलोपेतं मुहूर्तमपि सुन्दरम् ॥ ५४४ ॥ विचार्य हृदये जातचमत्कारः पुरोहितः । विस्मितास्यः शिरो धुन्वन् स नखाच्छोटनं ददौ ॥५४५॥ तद् दृष्ट्वा तं नृपोऽपृच्छत् किमेतदिति सादरम् ? । पुरोधाः स्माऽऽह निगूढं तत्त्वं देव ! निशम्यताम् ।।५४६॥ मद्गृहे चेटिकाया यस्तनयोऽजनि सम्प्रति । सुमुहूर्तप्रमाणेन तव पट्टे निवेक्ष्यते ॥ ५४७ ॥ तत् श्रुत्वा सहसा व्योम-तमाल-यमुनाजलैः । समानमाननं जज्ञे राज्ञः साशङ्कचेतसः ॥ ५४८ ॥